________________
(२१६) ऊर्वासनस्थाशयनस्थार्चापरिकरो नाम षोडशोत्तर
द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
आसनस्था तथैवार्चा शयनस्था विशेषतः। तासामनुक्रमं युक्ति वक्ष्ये परिकरादिकम् ॥१॥ पूर्वमानान्विताः कुर्यादर्चा वै सर्वशोभनाः। पक्षद्वये भुजानां तु युग्मतालप्रविस्तरैः ॥ २॥ मकर्यरैः कर्णिका वृत्ताः सुरूपाः लक्षणान्विताः। तिलको मृगाङ्कः स्यान्मालाचयसमन्विताः ॥३॥ कामदा बाह्यपक्षे तु गजसिंहादित; क्रमात् । पृष्ठपट्टोदूभवा, कार्या वाहिकोभयमध्यतः ॥ ४ ॥ प्रतिमास्कन्धकोत्सधपृष्ठपट्टान्तवाहिका । दोला च तोरणं कायें नेमिकाकाररूपके ॥५॥ विरथिका तथा कार्या छत्रत्रयसमन्विता। अशोकपत्रकाकारा छत्रदण्डसमन्विता ॥६॥ अधस्तात् फणिमण्डपं मयूरकान्ति सन्निभम् । मयूरकस्य चाधस्तात् सिंहासनमलङ्कृतम् ॥ ७ ॥ अर्चा चोवोदये कार्या सिंहासनसमन्विता। पक्षद्वये धर्मचक्रं गजसिंहरलकृतम् ॥ ८ ॥ यक्षाः शासनदेवश्च तस्य चोभयपक्षतः। एवमेव तथा कार्य सिंहासनमलङ्कृतम् ॥९॥ ऊर्ध्वाऽऽसनस्था चैवं स्यादा सर्वशोभना । तदुच्छ्यत्रिभागेन जलपट्टस्य निर्गमः ॥१०॥ तस्यावं पीठबन्धस्तु कर्तव्यो लक्षणान्वितः । एवमूर्वासनस्थायाः कार्य: परिकरस्तथा ॥ ११ ॥ यथोदितं परिकरं शयनस्थां च वच्म्यहम् । तदनुक्रमयुक्तिं च कथयामि विशेषतः॥१२॥ शयनस्था तु या चार्या पर्यकान्तं यथोदिता। कार्या तद्विगुणा चैव वाहिका शीर्षपदान्तिका ॥ १३ ॥ गजसिंहरलइकृत्वा कर्तव्या सर्वकामदा। तस्याचे तोरणं चैव सदोचे ! चाधिकोदयम् ॥१४॥ त्रिपञ्चसप्तान्ता पक्तिरचर्चा सर्वत्र शोभना । सप्तलोकादिक्रमैश्च कर्तव्यास्तत्र देवताः ॥ १५ ॥ भुवोकोऽथस्वलोंको महोलोको जनोऽपरः । तपोलोको सत्यलोको ज्ञानलोकस्तु सप्तमः ॥ १६ ॥