________________
(२१५) सर्वप्रतिमा नाम पञ्चदशोत्तर द्विशततम सूत्रम् ॥
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि विष्णुमूर्तेश्च लक्षणम् । वर्णभेदानुक्रमं च मूर्तीनां च पृथग्विधिम् ॥ १॥ केशवो नारायणश्च माधवो गोविन्दस्तथा । स्थापिता मूर्तयश्चैषां विप्राणां च सुखावहाः ॥२॥ विष्णोर्मधुसूदनस्य क्षत्रियस्य फलप्रदे । त्रिविक्रमवामनयोः स्थापनं वैश्यसौख्यदम् ॥ ३॥ स्थापिताचैधरी मूर्तिः शूद्रस्याऽपि सुखावहा । रजकानां चर्मकारनटानां वरदस्य च ॥ ४॥ कैवर्तमेदभिल्लानां हृषीकेशः सुखावहः । कुम्भकारो वणिग्वेश्या वक्रिकध्वजिनावपि ॥ ५॥ एतेषां प्रकृतीनां च सर्वेषां च सुखावहः । पद्मनाभः सुविख्यातः स्थाप्यो देवश्चतुर्भुजः ॥६॥ पांत्रयम्बकः श्रीमान् दण्डिनां च विशेषतः । दामोदरः समाख्यातस्तथा च ब्रह्मचारिणाम् ॥ ७ ॥ यच्छन्त्येते शुभं राज्यं भृत्यपुत्रकलत्रकम् । हरि हरं हेमगर्भ नारसिंहमतः परम् ॥ ८॥ धामनं चैव वाराहं सर्ववणेषु कारयेत् । धनं धान्यं च सौभाग्यं लभन्ते कर्तकावयः ॥९॥ स्थापिता चैव यन्मूर्तियनिता चेद्विसर्जयेत् । तन्मूर्तिश्च प्रकर्तव्या नाऽन्यमूर्ति प्रवेशयेत् ॥ १० ॥ मखकेशाधङ्गकैश्च हाः कण्ठविभूषणः । कंङ्कणैः कटिसूत्रैश्च किरीटकुण्डलादिभिः ॥ ११ ॥ धनमाला तुरगाद्या! नूपुरैः पादकङ्कणैः । शस्त्राद्यायुधभेदेश्च व्यङ्गितामपि तां त्यजेत् ॥ १२ ॥ मखकेशाभूषणादिशस्त्रवस्त्राद्यलकृतिः । विषमा व्यङ्गिता नैव दूषयेन्मूर्तिमङ्गकम् ॥ १३ ॥ शान्तिपुष्टयादि कृत्यैश्च पुनः सा च समीकता। पुनारथोत्सवं कृत्वा प्रतिमा अर्चयेच्छुभाः ॥ १४ ॥ अङ्गोपालेश्च प्रत्यङ्गैः कथंचिद् व्यङ्गदूषिता । विसर्जयेत्ता प्रतिमामन्यमूर्ति प्रवेशयेत् ।। १५ ।। जीर्णोद्धारक्रमयुक्ति प्रतिष्ठादिभिराचरेत् । प्रतिष्ठानन्तरे प्राश: कुर्यादष्टमहोत्सवान् ॥ १६ ॥ था खण्डिताश्च दग्धाश्च विशीर्णाः स्फुटितास्तथा । न तासो मन्त्रसंस्कारो गतासुस्तत्र देवता ॥ १७ ॥