________________
५४८
अपराजित पुच्छा
सोमः कमलहस्तः स्यात् कुजो दण्डकमण्डलू योगासनस्थश्च बुधो गुरुश्चाऽक्षकमण्डलू ॥ १५ ॥ अक्षं कमण्डलुं शुक्रः शनिर्दण्डकमण्डलू | अर्धकायः स्थितो राहुः केतुः करपुटाकृतिः ॥ १६ ॥ सप्ताश्वरथआदित्यश्चन्द्रो दशहयः स्मृतः । मेषारूढोऽङ्गारकश्च बुधः सर्पासनस्थितः ॥ १७ ॥ हंसारूढं गुरुं विद्यात् शुक्रं दर्दुरवाहनम् । शनिं च महिषारूढं राहुं वै कुण्डमध्यगम् ॥ १८ ॥ सर्पपुच्छाकृर्ति केतुं शनिं दंष्ट्राकरालकम् । किरीटमाला शोभाढ्याः सर्वाभरणभूषिताः ॥ १९ ॥ इति ग्रहसहिता सूर्यमूर्तिः ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तु श्रीभुवन देवाचार्योंक्ता पराजित पृच्छायां ब्रह्मसूर्यादिनवग्रहाधिकारी नाम चतुर्दशोत्तर द्विशततमं सूत्रम् ॥