________________
(२१४) ब्रह्मसूर्यादिनवग्रहा नाम चतुर्दशोत्तर द्विशततम सूत्रम्॥
विश्वकर्मोवाच
ऋग्वेदादिविभेदेन कृतादियुगभेदतः। विप्रादिवर्णभेदेन चतुर्वक्त्रश्चतुर्भुजः ॥ १॥ ब्रह्मा पितामहश्चैव विरश्चिः कमलासनः। एकैकस्य यथा प्रोक्ता मूर्तिः स्यात्परमेष्टिनः ॥ २॥ अक्षसूत्र करे दक्षे शुचिस्तस्योर्ध्वतः स्थिता । पुस्तकं वामहस्ते च तस्याधस्तात् कमण्डलुः ॥३॥ कमलासनमूर्तिः स्यात्सर्ववर्णहितप्रदा! कलौ युगे भवेच्चैवं कर्तृकप्रवरादिषु ॥ ४॥
इति कमलासनः॥ अक्षसूत्रं पुस्तकं च शुचिश्चैव कमण्डलुः। विरञ्चेः सा भवेन्मूर्ति द्वाषरे सुखदायिनी ॥५॥
इति विरचिः॥ कमण्डलुश्वाक्षत्रं ध्रुवाश्च पुस्तकं तथा । पितामहस्य मूर्तिः स्यात् त्रेतायां सुखदायिनी ॥ ६॥
इति पितामहः॥ पुस्तकं चाक्षसूत्रं च श्रुवाश्चैव कमण्डलु । ब्रह्मणः सा भवेन्मूर्तिः कृते तु सुखदायिनी ॥ ७ ॥ ब्रह्मा सुवक्त्रः सुभावः कर्णसंस्थितकुण्डलः । किरीटमालाशोभाढ्य समांस गलकेशकः ॥ ८॥ तप्तकाञ्चनवर्णाभो मणिरत्नहारोज्ज्वलः। मुक्ताकटककेयूर सर्वाभरण भूषितः ॥९॥
इति ब्रह्मणो मूर्तिः॥ आदित्यस्य प्रवक्ष्यामि मूर्ति नवग्रहान्विताम् । रक्तवों महातेजाः शतपद्मोपरिस्थितः ॥ १० ॥ सर्वलक्षणसंयुक्तः सर्वाभरणभूषितः । द्विभुजश्चैकवत्रश्च श्वेतपङ्कजधृत्करः ॥ ११ ॥ तेजोवर्तुलविम्बस्य मध्यस्थो रकवाससः। इदमादित्यरूपं स्यात् सर्वपापप्रणाशनम् ॥ १२ ॥ वेतवर्णों भवेत्सोमो रक्तो हाङ्गारकस्तथा । बुधश्च पीतवर्णाभस्तादृग्रूपं गुरोस्तथा ॥ १३ ॥ गोक्षीरधवल शुक्रः कृष्णवर्णः शनैश्चर।। राजावर्तनिभो राहु नः केतुः सदा भवेत् ॥१४॥