________________
.५४६
दिक्पालादिविविधमूर्तिलक्षणो नाम त्रयोदशोत्तर द्विशततमं सूत्रम् ॥
चतुर्वक्त्रं चाष्टबाहुं चतुष्कैक निवासनम् । ऋज्वागतोमुखः कार्यः पद्महस्तो दिवाकरः ॥ ३२ ॥ खट्वाङ्गत्रिशूलहस्तो रुद्रो दक्षिणतः शुभः । कमण्डलुं चाक्षसूत्रमपरे स्यात् पितामहः ॥ ३३ ॥ वामे तु संस्थितश्चैवं शङ्खचक्रधरो हरिः । एवंविधं प्रकर्तव्यं सर्वकामफलप्रदम् ॥ ३४ ॥
इति हरिहरहिरण्यगर्भः ॥
षड्भुजं च चतुर्वक्त्रं सर्वाभरणभूषितम् । कमण्डलुं चाक्षसूत्रमुभयोः एकजटक्करम् ? ॥ ३५ ॥ मृणाल मूर्ध्वकरयोः कर्तव्यं शुभलक्षणम् । सर्वाभरणसम्युक्तं सर्वकामफलप्रदम् ॥ ३६ ॥
इति चन्द्रार्कपितामहः ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाश प्रोक्तृ श्री भुवनदेव च। यक्ता पराजित पृच्छायांदिक्पालादिविविधमूर्तिलक्षण|धिकारो नाम त्रयोदशोत्तर द्विशततमं सूत्रम् ॥