________________
अपराजितपृच्छा गदां निधिं बीजपूरं करोबिभ्रत्कमण्डलुम् । गजारूढः कर्तव्यो धनदश्चोत्तरे तथा ॥ १५ ॥ वरदं च त्रिशूलं च नागेन्द्र बीजपूरकम् । वृषारूढश्च कर्तव्य ईशानो धवलद्युतिः ॥ १६॥ एकवक्त्रं दशभुज नृत्यन्तं त्रिपुरान्तकम् । सिंहचर्मपरिधान मृगचर्मोत्तरीयकम् ॥ १७ ॥ रक्ताम्बरधरं देवं सूर्यकोटिसमप्रभम् ।। कपालमालाभरणं शशाङ्ककृतशेखग्म् ॥१८॥ खट्वाङ्गखेटकधरं धृतखड्गकपालकम् । त्रिशलादिन कण्ठा व शरशाइविधारिणम् ॥ ११ ॥ पाशाङ्कुशधरं देवं कुण्डलाभ्यामलइन्कृतम्। हरं संस्थाप्य नृत्यन्तं बलयाकारसंस्थितम् ॥ २०॥
प्रति दिपालयुक्तत्रिपुरान्तकमूर्तिः ।। अर्धनारीश्वरं वक्ष्ये उमादेहार्धधारिणम् । वामाने व स्तनं कुर्यात् कणे वै ताडपत्रकम् ॥ २१ ॥ वालिका वामकणे तु दक्षिणे कुण्डलं तथा। मुकुटाधं च माणिक्यं जटाभारं च दक्षिणे ॥ २२ ॥ अर्धे चैव स्त्रियो रूपं सर्वाभरणभूषितम् । पुरुषं दक्षिणे भागे कपालकाटमेखलम् ॥ २३ ॥ त्रिशूलं चाक्षसूत्रं च तहक्षिणकरोद्धतम् । कमण्डलु दर्पणं च गणेशं वामतस्तथा ॥ २४ ॥
इत्यर्धनारीश्वरः॥ उमामहेश्वरं वक्ष्ये उमया सह शङ्करम् । मातुलिङ्गं त्रिशूलं च धृतं दक्षिणत: करे ॥२५॥ आलिङ्गन् वामहस्तेन नागेन्द्रं च द्वितीयके । हरस्कन्धे उमाहस्तं दर्पणं द्वितीये करे ॥ २६ ॥ अधस्तावषभं कुर्यात् कुमारंच गणेश्वरम् । भृङ्गिरिटि तथा कुर्यान निर्मासं नृत्यसंस्थितम् ॥ २७ ॥
इत्युमामहेश्वरमूर्तिः ॥ कृष्णशङ्करकं वक्ष्ये कृष्णार्धेन तु संस्थितम् । कृष्णार्धे मुकुट कुर्याज्जटाभारं च दक्षिणे ॥ २८ ॥ कुण्डल दक्षिणे कर्णे वामे मकरकुण्डलम् । अक्षमालां त्रिशूलं च चक्रं वै शङ्खमेव च ॥ २९ ॥
इति कृष्णशङ्करमूर्तिः ॥ एकपीठसमारूढमेकदेह निवासिनम् । षड्भुजं च चतुर्वक्त्रं सर्वलक्षणसम्युतम् ।। ३०॥ अक्षसूत्रं त्रिशूलं च गदां चैव तु दक्षिणे । कमण्डलुं च खट्वाङ्गं चक्रं वामभुजे तथा ॥३१॥
इति हरिहरपितामहः॥