________________
(२१३) दिक्पालादिविविधमूर्तिलक्षणो नाम त्रयोदशोत्तर
द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
मातुलिङ्गं च नागेन्द्र डमरु शलमेव च । नन्दी मुकुटशोभादयः सर्वाभरणभूषितः ॥ १॥ खट्वाङ्गं च कपालं च डमरु बीजपूरकम् । दंष्ट्राकरालवदनो महाकालस्तु दक्षिणे ॥ २॥
इति पूर्वप्रतिहारो॥ सर्जनी त्रिशूलं चैव गदा डमरुक तथा । हेरम्बो वामभागे हि भृङ्गिणं दक्षिणे स्मृतः ॥ ३ ॥ गदाडमरुखट्वाङ्गं तर्जनी वामहस्तके । उभौ वा दक्षिणद्वारे भृङ्गी दक्षिणतः शुभः॥४॥
इति दक्षिणप्रतिहारो॥ त्रिशल डमरं चैव खट्वाङ्गं बीजपूरकम् । पश्चिमे दुर्मुखो घामे तद्वत्रं गोमुखाकृति ॥५॥ पश्चिमद्वारि कार्यः स पाण्डुरोऽस्याथ दक्षिणे । खट्वाङ्गं व कपालं च डमरु बीजपूरकम् ॥ ६॥
इति दुर्मुखो वामे पाण्डुरो दक्षिणे ।। मातुलिङ्गं मृणालं च खट्वाङ्गं पद्मदण्डकम् । सितश्चैवोत्तरे द्वारे वामे चैव व्यवस्थितः ॥ ७ ॥ पखण्डं च खट्वाङ्गं मृणालं बीजपूरकम् ।। असितो पक्षिणे भागे उत्तरे द्वार एव च ॥ ८॥
इति सितो वामेऽसितश्च दक्षिणे ।। वरं वज्राजकुशौ चैव कुण्डी धत्ते करैस्तु यः । गजारूढः सहस्राक्ष इन्द्रो वै पूर्वतः स्थितः ॥९॥ वरदः शक्तिहस्तश्च समृणालकमण्डलुः । ज्वालापुअनिभो देवो मेषारूढो हुताशनः १०॥ लेखनी पुस्तकं धत्ते कुक्कटं दण्डमेव च । सुमहामहिषारूढो यमः कृष्णाङ्ग ईरितः ॥ ११ ॥ खङ्गं च खेटकं हस्ते कत्रों चैवारिमस्तकम् । दंष्ट्रालम्बमुखी कुर्योच्छवाना रूढां च नितिम् ॥ १२ ॥ वरं पाशं च कमल करै बिभ्रत्कमण्डलुम् । कर्तव्यो मकरारूढो वरुणः पश्चिमे तथा ॥ १३ ॥ वरं श्वज पताकां च दस्तैः कमण्डलुम् । मृगारूदो हरिद्वर्णः पवनो वायुदिपतिः ॥ १४ ॥