________________
अपराजितपृच्छा त्रिशले चाक्षसूत्र च कपाल कुण्डिकां तथा । याम्ये सौम्ये च विभ्राणं व्यालव्याप्ती करौ तथा ॥४७॥ पद्मासनस्थितं देवं वैद्यनाथं हरं प्रभुम् । . वनमालादिसंयुक्त सूर्यकोटिसमप्रभम् ॥४८॥ महाकेयूग्सम्युक्तं प्रभामण्डलमण्डितम् । वैद्यनाथ विजानीयात् शक्त्यारोग्यप्रदायकम् ॥ ४२ ॥
इति वैद्यनाथ मूर्तिः ॥ गोरशता ? वर शान्तं कमण्डल्वक्षपाणिकम । धन्वन्तरि सुषेण वा वानगस्यामराङ्गकम् ॥ ५० ॥ अमृतागमहस्तं च कुर्यात्तस्पार्श्वयोः सदा।। अवतारः कृतो येन रामलक्ष्मणतत्वतः ॥५१॥ इति सूत्रसन्तानगुणकोतिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया
मेकादशरुद्रनिर्णयाधिकारी नाम द्वादशोत्तरद्विशततमं सूत्रम् ॥