________________
एकादशरुद्रनिर्णयो नाम द्वादशोसर द्विशततम सूत्रम् ।। त्रिलोचनश्चतुर्बाहुः शुक्लाक्षः सुकरद्वयः।। दक्षेणपाणिना पूर्ण वंशामृतरसं पिबत् ॥ ३१ ॥ धृतमुक्ताक्षसूत्रश्च महादेवो धनोर्जितः । महाश्चर्यप्रदायी व रुद्रश्चैकादशः स्मृतः ॥ ३२ ॥
इति महादेव एकादशो रुद्रः। पद्मासनेन संस्थाय ! योगासनकरद्वयम् । पञ्चवक्त्रं भयं शक्ति शूलखट्वाङ्गधृत्करम् ॥ ३३ ॥ भुजङ्गसूत्रडमरु बीजपूरधरं शुभम् ! । इच्छानानक्रियं चैव त्रिनेत्र ज्ञानसागरम् ॥ ३४॥
इति द्वादशकलासम्पूर्णमूर्तिः सदाशिवः॥ गजाननं चतुर्बाहुं व्यक्षं पुरुषरूपिणम् । एकदन्तं महाचण्ड ब्यालयज्ञोपवीतिनम् ॥ ३५॥ स्वदन्तं दक्षिणे हस्ते परशुं चाऽपरे करे। उत्पलं चोर्ध्वतो नामे तस्याऽधो मोदकं स्थितम् ॥ ३६॥ सिन्दूर रक्तं कुम्भं च कुइकुमारुणविग्रहम् । कुर्याध मूषकारूढं सिद्धिदं सर्वकामदम् ॥ ३७ ।।
इति गणपतिः ॥ वरदं चाकुशं दन्तं परशुं दक्षिणे करे।। कपालं शराक्षमालं पाशं दण्डं च वामके ॥ ३८॥ पञ्चवकूत्रं त्रिनेत्रं च हरं रुद्रगणेश्वरम् । वृषभवाहनोपेतं सर्वकामार्थसाधनम् ॥ ३९ ॥
इति हरिहरमूर्तिः॥ षड्वक्त्रं द्वादशभुज लोचनत्रयसंयुतम् । शिव्यारूढं मांसलं च कुमार कुमाराकृतिम् ॥ ४० ॥ शरं शक्तिं च खड्गं च अङ्कुशं दण्डमेव च । अक्षसूत्रं षडेतानि वामकेषु भुनेषु च ॥४१॥ शङ्ग धनुः पाशखेटं वरदां च कमण्डलुम। दक्षिणेषु भुजेवेव मत्राणां षट्कमेव च ॥ ४२ ॥ .
इति स्वामिकार्तिकेयः॥ क्षीरोदार्णवमध्यस्थ मुभवेऽमृतरूपिणम् । विषजीर्ण भुजङ्गानां तस्य आदो समुद्भवम् । ॥ ४३ ।। सर्वाश्चर्यमयं रूपं विबोधाद्विषहारकम् । दारिद्मकुष्ठहरं च धमार्थकाममोक्षदम् ॥४४॥ मुक्तामण्डलशोभाढ्यं तप्तकाश्चनसप्रभम् । हारकेयूरसम्युक्तं प्रभामण्डलमण्डितम् ॥ ४५ ॥ त्रिनेत्रं षड्भुजं शुभ्रं जटाखण्डेन्दुभूषितम् । व्याघ्राजिनं सितं सौम्यं नागयज्ञोपवीतिनम् ॥ ४६ ।।