________________
अपराजितपृच्छा नीलोत्पलदलश्याममतसीपुष्पसन्निभम् । भृगभ्रमङ्मजटिलं शशाककृतशेखरम् ॥१६॥ तक्षकं कर्कोटकं च पायूनेत्रे पुरौ कृतौ । अघोरसमकं हेतुं कालरूपमिवापरम् ॥ १७ ॥ महावीर्य महोत्साहमष्टबाहुं महाबलम् । रिपुसैन्य त्रासयन्तं निवेशो यत्र भूतले ॥१८॥ खट्वाङ्गं च कपालं च खेटकं पाशमेव च । वामहस्तचतुष्कण शस्त्राणां च चतुष्टयम् ॥ १९ ॥ त्रिशूलं कलशं खड्ग दण्डश्चैवारिमर्दनम् । करेषु वै दक्षिणेषु चैतदनचतुष्टयम् ॥ २० ॥
- इत्यघोर स्तृतीयो रुद्रः॥ पीताम्बरधरं देवं पातयज्ञोपवीतिनम्। मातुलिङ्ग करे वामे अक्षसूत्रं च दक्षिणे ॥ २१ ।।
इति तत्पुरुषश्चतुर्थों रुद्रः ।। शुद्धस्फटिकसंकाशं जटाचन्द्रविभूषितम् ।। त्रिनेत्रं शूलहस्तं च वामे धृतकपालकम् ॥ २२ ॥
इतीशानः पञ्चमो रुद्रः॥ कपालमालिनं श्वेत शशाङ्ककृतशेखरम् । व्याघ्रचर्मधरं रुद्रं नागेन्द्रोरुविभूषितम् ॥ २३ ॥ त्रिशूलं चाक्षसूत्रं च विभर्ति दक्षिणे करे। कपालं कुण्डिकां वामे योगमुद्रां करद्वये ॥ २४॥
इति षड्भुजमृत्युञ्जयः षष्ठो रुद्रः॥ एकवत्रं त्रिनेत्रं च शशाङ्ककृतशेखरम् ।। बहल्ललाटकापोलं कम्बुग्रीवं सुशोभनम् ॥ २५ ।। चतुर्भुजं महाबाहुं शुलपङ्कजधृत्करम् ।। दिव्यरूपधरं देवं वरदाभयपाणिकम् ।। २६ ॥
इति विजयः सप्तमो रुद्रः ।। चतुर्भुजं महावक्षः शुक्लाक्षं सूत्रपाणिकम् ।। पुस्तकाभयहस्तं च वरदाशं त्रिलोचनम् ।। २७ ॥
इति किरणाक्षोऽष्टमो रुद्रः ।। स्वलस्पावकसंकाशं खड्गहस्तं त्रिशूलिनम् । महाकोधकरं देवं मायाकृतमहाग्रहम् ॥२८॥
___ इत्यधोरात्रो नवमो रुद्रः ।। चित्रसूत्रवस्त्रधरं चित्रयज्ञोपवीतिनम् । चित्ररूपं महासत्यं चित्रैश्वर्यसमन्वितम् ॥ २९ ॥ चतुर्बाहुं चैवक्त्रं सर्वालङ्कारभूषितम् । खग धनुः शरं खेटं शशाङ्ककृत शेखरम् ॥ ३० ॥
इति श्रीकण्ठो दशमी रुद्रः ॥