________________
(२१२) एकादशरुद्रनिर्णयो नाम द्वादशोत्तर द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
सद्यो वामोऽघोरतत्पुरुषाधीशान एव च । मृत्युंजयश्च विजयः किरणाक्षोऽघोरास्त्रकः ॥१॥ श्रीकण्ठश्च महादेवो रुद्राश्चैकादश स्मृताः। द्वादशकलासम्पूर्ण-मूर्तिश्चैवं सदाशिवः ॥२॥ गणेशं च कुमारं च तथाऽौ द्वारपालकान् । दिकपालकसमायुक्तं नृत्यन्तं त्रिपुरान्तकम् ॥ ३॥ अर्धनारीश्वरं वक्ष्ये तथा चोमामहेश्वरम् । कृष्णशइकरमेवं च हरिहरपितामहम् ॥ ४ ॥ हरिहरस्वर्णगर्भ सचन्द्रार्क पितामहम् । त्रिपुरुषं ब्रह्म-विष्णुमहेशं तु त्रिमूर्तिभिः ॥ ५॥ भास्करं ग्रहसम्युक्तं कृष्णं च द्वारकास्थितम् । जैनेन्द्रं वच्मि चतुर्वि-शति तीर्थङ्करानपि ॥६॥ गौर्याश्चैव तथा मूर्ति दुर्गानवकमेव च । श्रियस्तथा च भैरव्या मातृणां च तथाष्टकम् ॥ ७ ॥ शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । शुक्लोष्णीषं शुक्लने शुक्लयज्ञापवीतिनम् ॥ ८॥ जटाभारसमायुक्तं बालेन्दुकृतशेखरम् । त्रिलोचनं सौम्यमुखं चतुःकुण्डलभूषितम् ? ॥९॥ दिम्यदेहं महाकायं नवयौवनमण्डितम । महाभुजं महोत्साहं वरदाभयपाणिकम् ॥ १०॥
इति सद्योजातः प्रथमो रुद्धः ॥ रक्ताम्बरधरं देवं रक्तयज्ञोपवीतिनम् । रक्तोष्णाषं रक्तनेत्रं रक्तमाल्यानुलेपनम् ॥ ११ ॥ जटायां कृतचंद्रं च त्रिनेत्रं तुमनासिकम् । महारक्तं महाबाहुं शुल खट्वाङ्ग धारिणम् ।। १२ ।। रक्तास्यं रक्तनयनं ? रक्तकुण्डलधारिणम् । सर्वालकारसम्युक्तं सर्वाभरणभूषितम् ॥ १३ ॥
इति वामदेवो द्वितीयो रुद्रः॥ करालदंष्ट्र विकटास्यं सर्पशीर्ष त्रिलोचनम् । मुण्डमालाधरं देवं सर्पकुण्डलमण्डितम् ॥ १४॥ भुजाकेयूरधरं सर्पहारोपवीतिनम् । गोनस कटिसूत्रं च गले वृश्चिकमालिकाम् ॥१५॥