________________
(२११) स्थानकविधिनिर्णयोनामेकादशोत्तर द्विशततमं सूत्रम् ।।
विश्वकर्मोवाच
अथ वक्ष्ये स्थानविधि क्रमयोगमुपागतम् । ऋज्वागतादि-स्थानानि पञ्च वै पूर्वभागतः॥१॥ कार्घाण्यपराङ्मुखानि चतुर्घत्ताभिधानि च । ब्रह्मसूत्रोद्भवं पूर्व सन्मुखं चावलोकने ॥२॥ अङ्गाभिधानसं तु ऋज्वागतादिस्थानतः। ऋज्वागतं ध्रुवं पूर्व तदाद्यं प्रवृत्तभ्रमः ॥ ३॥ स्वाङ्गुलोभवयुक्ता च पादयुक्ता त्रिशोभना । भ्रकेशान्तयोर्मध्ये च शिरोवृत्ते तु मानतः॥४॥ आद्यमज्वागतं नाम अर्धर्जु च द्वितीयकम् । साचीकृतं तृतीयं तु द्वयर्धाख्यं चतुर्थकम् ॥५॥ उपर्य्यथो सूत्रधातः पराङ्मुख (वृत्त ) चतुष्टयम् । ऋज्वागतपरावृत्त मध परावृत्तकम् ॥ ६॥ साचीकृतपरावृत्तं ततो द्वयर्धर्जुपूर्वकम् । इत्युक्तं परभागैश्च परावृत्तचतुष्टयम् ॥ ७॥ उभयर्वागतमध्ये प्रत्यङ्गाङ्गकशोभनम् ॥ इति पाागतं प्रोक्तं स्थानक नवमं विदुः ॥ ८॥ पिंपलीकण्ठमध्ये च बाह्वोश्च स्कन्धगर्भतः। अक्षसूत्रोद्भवाख्यं च पार्श्वसूत्रं प्रतिष्ठितम् ॥९॥ नासानं दशनाग्रं च अगुष्ठाग्रं तथैव च। पूर्वं प्रतिष्ठितं सूत्र क्रमयुक्तिमुपागतम् ॥ १० ॥ ललाटनालिकामध्ये चिबकस्तनयोस्तथा। मेढे च गुह्ममूलं च वलसूत्रं प्रतिष्ठितम् ॥ ११॥ कुर्यात्स्थूलं च सूत्रस्थं नासाग्रमात्रनिर्गतम् । उच्छ्वासः सार्धद्वयाक्षोऽशष्टमूलं वेदाङ्गुलम् ॥ १२॥ क्षिप्त्वा संगमत्रियवं गोजिकामात्रमेव च ॥ १३ ॥ अधरान्तं गतं सूत्रं हनुकामात्रमेव च। ग्रीवा वेदाङ्गुलोक्षिप्ता आहिका ? मात्रसंशिका । अङ्गा मध्ये विभागोक्ता द्विगुणं जानुमस्तके ॥ १४ ॥ षण्मात्रा गुल्फसूत्रे च प्रवेशो निर्गमस्तथा। निर्गमश्च प्रवेशश्च युक्तिमानं विधीयते ॥ १५॥ कार्य पृष्ठ स्तनसूत्रे चतुर्दशाङ्गुलक्रमात् । नाभिदेशे तथा सङ्ख्याऽऽसनसूत्रे चतुर्दश ॥ १६ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
स्थानकविधिनिर्णयाधिकारो नामकादशोत्तरद्विशततमं सूत्रम् ॥