________________
५३८
अपराजितपुच्छा अष्टाशुलौ तथा स्कन्धौ स्तनोचे द्वादशागुले । कक्षास्थान प्रकोष्ठाभ्यां षाडशाङ्गुलमीरितम् ॥ १८॥ प्रकोष्ठान्मणिबन्धश्चाऽगुलान्यष्टाऽथवा दश । सप्ताङ्गुलं करतलं मध्यमा पञ्चमात्रका ॥ १९ ॥ तर्जनी चाऽनामिका च हीना च स्याश्चतुर्यवैः । अनामिका पञ्चयवहींना सा स्यात्कनिष्ठिका ॥ २० ॥ अगुष्ठं स्याच्चतुर्मात्र तालार्ध च करो कम ।। पञ्चागुलं च विस्तीर्ण कुर्यात्करतलं तथा ॥२१॥ अष्टयवान्तरेऽङ्गुष्ठं तर्जनी षड्यवान्तरे । मध्याद्यान्तिमान्ताः सप्त षट्पञ्चयवान्तराः ॥ २२ ॥ त्रिपर्वकास्तथा सर्वा निम्ना अग्रे सुवृत्तकाः पर्वार्धन नखास्ताभ्यस्ताभिः सार्धं विनिर्गताः॥ २३ ॥ सार्धद्विपर्व चाङ्गुष्ठं पर्वाध च नखाः स्मृताः। कुलरेखा च कर्तव्या अगुष्ठमनुवर्तते ॥ २४ ।। कनिष्ठाधस्तर्जन्यन्तमायूरेखा समीरिता। मध्यमा च तथा रेखा धनरेखा तदूर्ध्वतः ॥ २५ ।। व्यङ्गुलो मणिबन्धः स्यानाहे सार्धदशाङ्गुलम् । गजहस्तोपमो बाह संस्थितौ च मनोहरी ॥ २६ ॥ विशत्यङ्गुलकं चैव कक्षयोरुभयान्तरम् ।। सप्ताशुलं भुजस्कन्धः कक्षे चैकैकमङ्गुलम् ।। २७ ।। चतुर्दशाङ्गुलो मध्यो नाभ्यूर्वे च षउङ्गुलम् । अष्टादशाङ्गुलं नाभे र्द्विमुखं चोरुमूलकम् ॥ २८॥ एकादशाशुला जला निम्नानेच सुवर्तिता। सप्ताश्शुलं जानुशिरो नलाग्रं निम्नमावृतम् ॥ २९ ॥ वेदाइगुलं गुल्फमूलं नाहं च द्वादशोद्भवम् । षडगुलं पूर्वपादः तर्जन्या: पूर्वभागतः ॥ ३० ॥ सार्धव्यङ्गुलमङ्गुष्ठं तर्जनी चतुरङ्गुला। ...................................... ॥३१॥ अगुष्ठसार्धाङ्गलोक्तं तर्जनी च तदर्धकम् ? । अङ्गुष्ठार्ध तु सूत्रेण कुर्यादग्रे कनिष्ठिकाम् ॥ ३२ ॥ निम्नमानक्रमः प्रोक्तः पर्वसङ्ख्याभिधीयते । त्रिपर्वकोद्भवाश्चान्या अगुष्ठं च द्विपर्वकम् ॥ ३३ ॥ पर्वाध च नखं कुर्यात्स्मृतः सर्वेष्वयं विधिः।। षण्मात्र: पाद विस्तार चतुर्मात्रा च पारिणका ॥ ३४ ॥ पादमूलतले चापाकारे मध्योनते तथा । . अक्षि? गुल्फो प्रकर्तव्यौ अर्धार्धमात्रकावुभौ ॥ ३५ ॥ स्कन्धौ समुन्नताकारी पृष्ठमध्यस्तु वंशवत् ।
वंशक्षिप्तो प्रतपक्षी ? सर्वावयवशोभनौ ॥ ३६ ।। इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां प्रतिमालक्षण
विधिनिर्णयाधिकारोनाम दशोत्तरद्विशततम सूत्रम् ।।