________________
(२१०) प्रतिमालक्षणविधिर्नाम दशोत्तरद्विशततमं सूत्रम् ॥
-
विश्वकर्मोवाच--
यत् किञ्चित्प्रतिमायाम विभजेन्नवभागतः। स्वकीयाङ्गुलमानेन भाग वै द्वादशाङ्गुलम् ॥१॥ अष्टोत्तरशतं सखैरगुलैरुच्छ्यो भवेत् । नवताल: स विज्ञेयो व्यवहारे प्रसिद्धयति ॥२ नवताले ततो वृद्धौ मस्तोर्वे चतुरङ्गुलैः। विख्यातो यामको द्वा-दशोत्तरशताङ्गुलः ॥ ३ ॥ उष्णीषमङ्गुलं प्रोक्तं व्यङ्गुलं शिरउच्यते। तालो ललाटाद् गलान्तं सर्वत्रैव मुखे क्रमः ॥ ४॥ व्यङ्गुलं च ललाटं स्यादङ्गुलं नेत्रसूत्रकम् । नेत्रसूत्रे तु कर्तव्या नासिका चतुरङ्गुला ॥५॥ गोजका चैकमात्रा स्यादधरं त्रियवान्तरम् ।
ओष्ठो यवैः पञ्चभिः स्याद्धनुः सार्धाङ्गुला भवेत् ॥ ६॥ विस्तार वैद्यगुलं तु गलमर्धाङ्गुलं मतम् । ग्रीवा सार्धाइगुला स्तन-सूत्रं त्रयोदशाङ्गुलम् ॥ ७ ॥ द्वादशाङ्गुलका नाभि उदरं चतुरङ्गगुलम् । वलिकात्रयसम्युक्तं गुह्यमष्टाङ्गुलं तथा ॥८॥ पञ्चमात्रोदूभवं भेदं वृषणश्चतुरङ्गुलः । ....... ..................... ।। ९॥ चतुर्विशत्याला स्याजवा जानुयुगाङ्गुलम् । जङ्घामानेन नलको गुल्फः स्याश्चतुरङ्गुलः ॥१०॥ उच्छ्यः कथितश्चैवं मस्तान्तो नवतालकः । षट् त्रिंशदङ्गुलो मध्यो विस्तरं शृणुसम्प्रति ॥ ११ ॥ चन्द्रोपमं ललाटं स्याद्विस्तारे चाष्टमात्रकम् । . आयामे द्वयगुले नेत्रे विस्तारे चाङ्गुलायते ॥ १२॥ नासो च भवेन्मात्रं द्विमा नयनान्तरम् । सार्धाङगुला च नासा स्यात्पुटिः स्याद् द्वियवान्तरा ॥ १३॥ . निष्पावसदृशी श्रोत्रपुटिरर्धामुला तथा। पिप्पली पुटितुल्या च पिछली (चम्पिका) चतुरङ्गुला ॥ १४ ॥ हनुका द्वयगुलायामे गण्डौ वृत्तौ षडालो। द्वादशाङ्गुले विस्तारे कौँ चैकैकमगुलम् ॥ १५॥ कर्णपार्श्व द्विमानं च तत्तुल्यं चान्यतो ? (चोन्नती) भवेत् । अङ्गुष्ठाइगुलमायामे करें वै लक्षणान्वितः ॥ १६ ॥ हनुकेशान्तयोर्मध्ये मानं पशिदङ्गुलम् ।।
ग्रीवाष्टांशा परिणाहे चतुर्विंशतिमात्रका ॥ १७ ।। ६८ अ.