________________
५३६
अपराजितपृच्छा उक्तमूर्चािप्रमाणं शय्यास्था खेकमानतः। न्यूना न्यूनाधिकारीनां प्रमाणमिति सम्भवेत् ॥ १६ ॥ हस्तपादादिवृद्धिश्च क्रमेण परिकीर्तिता। हस्ताद्यं तुर्यपर्यन्तमतऊर्च न कारयेत् ।। १७ ॥ व्यङ्गुलतो दिग् हस्तान्तं वृद्धिं कुर्यादनुक्रमात् । दिगुत्तरं शतार्धान्तमेकैकाङ्गुलवृद्धितः ॥ १८॥ . विंशत्यशैः कनिष्ठोना ज्येष्ठा तर्दशवर्धनात् । इत्यादिकं तथा प्रोक्तं त्रिविधं मानमेव हि ॥ १९॥ आसनस्थोद्भवा ख्याता शयनस्था क्रमोद्भवा ? । स्थित्वा शयनकेशान्तं प्रमाणमेतत्सम्भवम् ? ॥ २० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवन देवाचार्योक्ता पराजितपृच्छायां
प्रतिमाप्रमाणाधिकारो नाम नबोत्तरद्विशततमं सुत्रम् ॥