________________
(२०९) प्रतिमाप्रमाणं नवोत्तरद्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
प्रासादमानोद्भवार्चा प्रमाणे त्रिविधोदिता। सीमागर्भद्वारमान तुर्यो हस्ताङ्गलैर्विधिः ॥१॥ आदौ सीमा पुनर्गर्भ द्वारमानं तृतीयकम् । हस्ताङ्गुलक्रमोक्तं च आर्चामानं चतुर्थकम् ॥ २॥ सीमार्धं च षडंशोनं हस्तात्तुर्यकरान्तगम् । इषुरलात्मकहस्ते स्थिता सीमा त्रिभागतः ॥३॥ पादोद्भवा दशान्तं च षडशोना हमा तथा । पञ्चमांशा च पादोना हस्तविंशतिकावधि ॥४॥ त्रिंशद्धस्ते षडशेन त्रिभागोन प्रकल्पयेत् । सप्तांशेऽर्चामानं त्यक्ता-धं चत्वारिंशदंशकैः॥५॥ अष्टमांशां शतार्धे तु त्रिभागोनां प्रकल्पयेत् । सीमामानोदभवाख्याता ऊर्धा! तु तथोत्तमा ॥ ६॥ मध्यमा द्वादशांशोना अष्टांशोना कनिष्टिका । ज्येष्ठमध्याधमा ख्याता: सीमामाने निधोदिताः ॥७॥
इति सीमामानोद्भवाम् ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ।। चतुर्भागेश्च द्वे भिती शेषं गर्भगृह मतम् ॥ ८॥ गर्भगृह त्रिभागैश्च ह्या कार्या सुशोभना । दशांशोना मध्यमा च पञ्चांशोना कनीयसी ॥९॥
इति गर्भमानम् ॥ द्वारमानोद्भवां वक्ष्ये ह्यर्ची सर्वत्र शोभनाम् । ऊर्ध्वाऽऽसनस्था शय्यास्था प्रत्येका मानसम्भवा ॥ १० ॥ तत्वयुग्मोद्भवे द्वारे ह्यर्चामानं विधोदितम् । षट्चन्द्रौ तत्त्वेन्दू शकाः अर्चाि सख्या मता ॥ ११ ॥ आसनस्था पूर्वमाने शक्रविश्वसूर्यांशतः ।। स्थितासना च केशान्तं प्रमाणं सूत्रतः स्मृतम् ।। १२ ॥
___ इति द्वारमानोद्भवार्चा ॥ हस्ताङ्गुलक्रमेणैव अर्चा प्रासादमानतः। तस्यानुक्रम उक्तश्च पङ्क्ति सोपानसंचयः ॥ १३॥ रुद्रादौ चैव दिग्वृद्धि हस्तैकाद्वेदहस्ततः । पक्षवृद्धादिषु श्वान्त सनार्धान्तांगुलोद्भवा ? ॥ १४ ॥ एतन्मानोद्भवा ज्येष्टा त्रिधोदितक्रमागता। त्यक्तविंशत्यंशा मध्या दशांशोना कनीयसी ॥ १५ ॥