________________
५३४
अपराजित पृच्छा
प्रासादमान तश्चान्त-लिङ्गस्थानादि कल्पितम् । एकद्वित्रिचतुःपञ्चषट्सप्ताङ्गुलकान्तरे ॥ १७ ॥ मूर्तिस्थाने तु कर्तव्या मूलस्तम्भैश्चतुष्किका । वृषस्य चोच्छ्रयः कार्यों विष्णुभागान्तदृष्टिकः ॥ १८ ॥ पाद जानु कटिं यावदर्घाया वाहनस्य दृक् । गुह्यनाभिस्तनान्तं वा सूर्ये व्योमस्तनान्तकम् ॥ १९ ॥ विलोमे कुरुते पीडामधोदृष्टिः सुखक्षयम् । स्थानं हन्यादूर्ध्वदृष्टिः स्वस्थाने मुक्तिदायिका ॥ २० ॥
I
इति सूत्रतनगुणकीर्तिप्रकाशप्रोक्तृ श्री भुवनदेवाचार्योक्ता पराजित पृच्छायां चण्डीश्वर (नन्दीश्वर) वृषभ लक्षणाधिकारो नामाष्टोत्तरद्विशततमं सूत्रम् ॥