________________
(२०८) नन्दीश्वर (वृषभ ) लक्षणमष्टोत्तर द्विशततमं सूत्रम्॥ ..
विश्वकर्मोवाच
अथात; सम्प्रवक्ष्यामि नन्दिकेश्वरलक्षणम् । पादोने वा त्रिभागोने पीठिकोच्छ्यमानतः ॥ १ ॥ उच्छ्येचण्डकं कुर्यात् स्थूलं भीष्माननं तथा । पिबन्तं च तथा माझ विकृताननमूर्ध्वगम् ॥ २॥ चण्डिकाग्रकेशैश्चैव निबद्धोपरि चण्डिका ?।। हारकैयूरसम्यक्तं ककणाभ्यामलङ्कृतम् ॥ ३॥ पदतश्चाष्टमं गत्वा तपनाक्षं पद्मकृतिम् । रुचकै भद्रकं चैव हंस वा वर्धमानकम् ॥ ४॥ जगत्युपरि कुर्याद्वै बाह्ये वै वामतस्तथा । एवं विधं तु कर्तव्यं चण्डनाथस्य लक्षणम् ॥ ५॥
इति चण्डनाथलक्षणम् ॥ नन्दीश्वरं ततो यक्ष्ये यदुक्तं पूर्वमेव हि। तस्य स्वरूपसंस्थान कथयामि तु सम्प्रति ॥६॥ ब्रह्माद्यं विष्णुभागान्तं कल्पयेत्तस्य चोच्छ्यम् । पादाधिको भवेजेष्ठः कनिष्ठः पादवर्जितः ॥ ७ ॥ तदुच्छ्यं च विभजेदू भागैः पञ्चभिरेव च ।। तत्र भागप्रमाणेन सप्तभागायतो भवेत् ॥ ८॥ द्विभागं च भवेद् वक्त्रमायामे चोच्छ्यं विदुः। अधोभागे मस्तकस्य भोगसूत्रे च सक्थिनी ॥९॥ शृङ्गं पादं तु विस्तारे विस्तारादुच्छ्योऽधिकः । शृङ्गाधश्चार्धभागेन कर्णः पादोनभागिकः ॥ १० ॥ भागमेकं भवेद्ग्रीवा पृथु कम्बलतः सह । अधोभागे मस्तकाच्च पृष्ठस्कन्धं च भागिकम् ॥ ११ ।। त्रिभागायतकं पृष्ठं त्रिभागं पृथु कुक्षयोः । द्विभागमुच्चैरुदरं च परमारुतत्युत्तमम् ? ॥ १२ ॥ बाहुल्य भागमेकं तु जङ्घा युग्मांशकायता। अर्धभागैक अग्रं च ? खुरिका चार्धभागतः ॥ १३ ॥ पुच्छमूलं भागपादमनं कुर्यात्तदर्धतः। चतुर्भागायतं पुच्छं भागेकं चाग्रचामरम् ॥ १४ ॥ तदुत्तमं च सोत्साहं पदिकं चोच्छ्रितं क्रमात् । घण्टाचामर घर्घरमालालङ्कार भूषितम् ॥ १५ ॥ शुङ्गाभरणमप्येवं कुडिकाने समोदका । मोदका वृषवनाने तापसोवदुकाकारम् ॥ १६॥