________________
५३२
अपराजितपृच्छा कार्या च मण्डलाकारा मेखलाभिरलकता। मण्डला सा तु विज्ञेया गणानां वृद्धिहेतवे ॥ १७ ॥ पूर्णचन्द्रसमाकारा मध्येन्यस्त द्विमेखला। सा विशेया पूर्णचन्द्रा रुद्राणां सततं प्रिया ॥१८ षडधा च भवेद् वज्री मेखलात्रयभूषिता। षोडशाथा भवेत् पद्मा किश्चिद्धस्वा तु मूलतः ॥ १९ ।। लग्नज्यधनुषाकारा अर्धचन्द्रा तु सा भवेत् । ' त्रिकोणा चोर्वतो म्हस्वा शक्त्या च सदृशी भवेत् ॥ २० ॥ न्यस्ता चोत्तरपूर्वेण प्रशस्ता लक्षणान्विता ।। लिङ्गस्यात्रिभागेन बाहुल्यार्धसमन्त्रिता ॥ २१ ॥ मेखलायास्त्रिभागेन खातं चैव प्रणालतः । अधस्तात् पादहीनं तु कारयेञ्चैव क्षोभणम् ॥ २२ ॥ प्रमाणादधिकं कार्य प्रणालं चोत्तरे तथा । पृथुपीठत्रिभागेन निष्काशं तस्य कारयेत् ॥ २३ ॥ विस्तारस्तत्प्रमाणेन मूलाधं च तदग्रतः। जलमार्गविधानं तदग्रतश्च सुशोभनम् ॥ २४ ॥ ददाति स्थण्डिला चैव धनं धान्यं च पुष्कलम् । गोमहिषीप्रदा वापी यक्षी सर्वार्थसंपदम् ॥ २५ ॥ मण्डला कीर्तिबहुला पूर्णचन्द्रा तु शान्तिदा । वज्री शत्रुविनाशाय पद्मा सौभाग्यदायिनी ॥ २६ ॥ पुत्रं दद्यादर्धचन्द्रा त्रिकोणा शत्रुनाशनी । देवस्य योजनार्थ तु पीठिकास्तत्र कीर्तिताः ॥ २७ ॥ शैले नियोजयेच्छली दारुजे दारुजां तथा । पार्थिवे पार्थिवा कार्या लोहजे.लोह जोत्तमा ॥ २८॥ रस्नजे धातुजा शस्ता रत्नजा तु विशेषतः। नान्ययोनि प्रकुर्वीत कृतायां वैरविग्रहे ॥ २९ ॥ यावदीर्घ भवेलिङ्ग तावान् पीठस्य विस्तरः। मानाधिकं न कुर्वित उमायाः शङ्करस्य च ।। ३०॥ उमा तु पीठिका शेया लिङ्गं शङ्कर उच्यते।
एवमेव समाख्यातं पीठिकानां तु लक्षणम् ।। ३१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां पीठिकालक्षणाधि
कारो नाम सप्तोत्तरद्वशततमं सूत्रम् ॥