________________
(२०७) पीठिकालक्षणं सप्तोत्तर द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
लिङ्गायामलमं पीठे पृथुत्वं तु प्रमाणतः। ब्रह्माद्यं चैव विष्ण्वन्तं विदुः पीठसमुच्छ्यम् ॥ १॥ प्रणालं तु विभागेन स्कन्धतुल्याकं तथा । त्रिधा विभक्तमय वै मध्यांशे जलमार्गतः ॥२॥ स्कन्धे तु पादमेकैकं मध्यवंशोभवाकृतिः । पृथुत्वे पीठसूर्याशा मेखला भ्रमण कृतिः ॥ ३ ।। भेखलायास्त्रिभागेन पात्रं ! (खातं ) कुर्यात्तथा परम् । याम्योत्तरं तत्सपादम वै सार्धभागिकम् ॥ ४॥ कूर्मपृष्टोद्भवाकारं मस्तकं दर्पणोपमम् । मेखलामध्यतः कार्य तावत् पाठं तु कामदम् ॥५॥ उच्छ्ये चैव पीठस्य त्रिंशद्धा प्रविभाजिते । एकांशा भूगति: कार्या त्रिभागा कर्णपट्टिका ।। ६॥ भागार्ध मुखपट्टी च त्रिभागा स्कन्धकोन्नतिः । स्कन्धस्य पट्टिका सार्धा भागार्धेऽन्तरपट्टिका ॥ ७ ॥ सार्धद्वयंशं कर्णकं स्यादेकभागा तु चिप्पिका । सार्धद्वयंशा कपोताली चान्त:पहम् द्विभागकम् ॥८॥ सार्धाः पञ्च पासपट्टिः कर्तव्यं विधिपूर्वकम् । अर्धे तु स्कन्धपट्टयाश्च त्रिभागं स्कन्धक्षोभणम् ॥ ९ ॥ अर्धे तु मुखपट्टयाश्च चतुर्भागं च कर्णकम् । क्षोभणस्याष्टभि र्भागैः कर्तव्यं तदशकितै ॥ १० ॥ यावही भवेलिङ्गं तावान् पीठस्य विस्तरः । उमा तु पीठिका ज्ञेया लिङ्गं शकर उच्यते ॥ ११ ॥ न्यूनाधिक न कर्तव्यमुमायाः शङ्करस्य च । म्यूनाधिके कृते दोषः कुरुते राष्ट्रविभ्रमम् ॥ १२ ॥
इति पीठिकालक्षणम् ॥ शुण्डिला (स्थण्डिला) च तथा वापी यक्षी वेदी तथैव च । मण्डला पूर्णचन्द्रा च वजी पद्माकृतिस्तथा ॥ १३ ॥ अर्धचन्द्रा त्रिकोणा च विज्ञेया दशपीठिकाः। आसां तु रूपसंस्थानं कथयामि निबोध ते ॥ १४ ॥ स्थण्डिला चतुरधाच एकमेखलया युता। द्विमेखला भवेद्वापी यक्षी चैव त्रिमेखला ॥ १५॥ चतुरश्रायता चैव वेदी सर्वार्थशोभना । लिङ्गेष्वेता प्रयत्नेन वर्जनीया सदा बुधैः ॥ १६ ॥