________________
५३०
अपराजितपृच्छा त्रयोदशा लिङ्गं तु अर्चितं च सदाबुधैः । पृथ्वीदेवाधिपत्यं च प्राप्यते नात्र संशयः ॥ १६ ॥ चतुर्दशास्त्रं लिङ्गं तु स्वर्गादौ देवपूजितम् । दशाश्वमेधजन्यं च फलं प्राप्नोति मानवः ॥ १७ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
बाणलिङ्गाधिकारो नाम षडुत्तरद्विशततमं सूत्रम् ॥