________________
अपराजितपृच्छा मार्गशीर्षे अहिवना ! कृष्णे च सुखदा तथा। पौषे च पार्वती देवी कृष्णे मोक्षप्रदायिनी ॥ १६ ॥ माधे माघेश्वरी ख्याता कृष्णे सौभाग्यदायिनी । फाल्गुने श्रीफलाख्या च कृष्णे च जातिका तथा ॥ १७ ॥ द्वादशमासना; ख्यातास्तृतीयाः पार्वतीव्रतम् । गौर्याव्रतमुपोप्येदं यागं कृत्वा महोत्सवम् ॥१८॥ ईप्सितं लभते काम त्रिपुराधिपतिप्रिये । दूर्वाष्टमी बुधाष्टमी ललिता सर्वसुन्दरी ! ।। १९ ।। सर्वराजादिविप्रेण पत्त्योत्तरभुक्तचेतस्तम् ? । एवं तु त्रिपुरे छिद्रं सम्प्राप्तं त्रिदशैरपि ॥ २० ॥ आयातो नारदो भूयो यत्राऽऽसीलपाणेकः । रथे चारुह्य देवेशं गणं कृत्वा महेश्वरः ।। २१ ॥ अथो मुमोचाग्निबाण ज्वलितं ज्वालमालया । पातितं दिव्यबाणेन हाहाकारसमुद्भवम् ।। २२ ।। त्रिखण्डं त्रिपुरं कृत्वा पातितं धरणीतले । पकं च पतितं खण्डं श्रीशैले त्रिपुरान्तिके ॥ २३॥ तत्र वै कोटिलिङ्गानां सिद्धं क्षेत्र प्रभावतः । द्वितीयं पतितं खण्डं पर्वतेऽमरकण्टके ॥ २४॥ अमरविद्योद्भवा ? कहिटः कोटि लिङ्गप्रभावतः। नर्मदायां च लिङ्गं त्वमरकण्टकनिर्मितम् ॥ २५॥ ततीयं पतितं खण्ड वाराणस्यां तु पुत्रक ।
तत्र सार्धकोटि लिङ्गं ख्यातमुभवनाशकम् ॥ २६ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां बाणलिङ्गोत्पत्ति
निर्णयाधिकारो नाम पञ्चोत्तरद्विशततमं सूत्रम् ।।