________________
(२०५) बाणलिङ्गोत्पत्तिर्नाम पश्चोत्तर द्विशततमं सूत्रम् ॥
-
विश्वकर्मोवाच
बाणो नाम महादैत्यः पूर्वमाऽऽराध्यदेवताः । ब्रह्मविष्णु सुरेन्द्राश्च पुरार्थ तेन याचिताः ॥१॥ तुटैश्च दत्तमेकैकं पुरं दिव्यं च काञ्चनम् । पुरत्रयं तु संयोज्य अन्तरिक्षगत: स च ॥२॥ पुरैः पवनवगैश्च भ्रमन्ति स्म प्रदक्षिणम् । पुरत्रयाधिपत्यं स प्राप्तस्त्रिपुरनामकः ॥३॥ जितवान देवदैत्यादीन यक्षविद्याधरोरगान् । चन्द्रसूर्यादिकांस्तेऽथ शम्भु शरणमागताः ॥ ४॥ अभयं दत्तवान् देवोऽवदत्तांश्च तथागतान् । गङ्गानर्मदयो मध्ये त्रिपुरं पातयाम्यहम् ॥५॥ बाणायाऽथाक्षिपद् वाणं हरो बाणोऽप्यचिन्त्य च । बाणं चिक्षेप नष्टौ तौ बाणों क्षिप्तो परस्परम् ॥ ६॥ पुरं चाश्यगतिक भ्रमत्तिष्ठत्क्षणे क्षणे। शन्यचेता दृढात्माऽपि हरो दृष्ट्वा च पूर्गतिम् ॥ ७ ॥ ईशेन विन्त्यमानोऽथ वरदो मुनिपुङ्गवः। स गतो नारदस्तत्र यत्र तत्रिपुरं पुरम् ॥८॥ बाणेन चाऽiमादाय नारदश्च सुपूजितः । बाणभार्या भानुमती तेजःस्था सत्पथे स्थिता ॥९॥
प्रणिपत्य मुनि प्राह ब्रह्मपुत्रं तु नारदम् । राशी उवाच
स्त्रीणां ब्रूहि कथं सत्यं व्रतं च परमेश्वर ।
अस्माकं तु मुनीन्द्रस्त्वं सर्वसिद्धिप्रदायकः ॥ १० ॥ नारद उवाच
स्त्रीभिश्चेदं व्रतं कार्यमनेकसिद्धिकारकम् । द्वादशमालोभपक्ष-तृतीयाः कामदा व्रते ॥ ११ ॥ चैत्रे वसन्तोत्सवाख्या कृष्णे धर्मप्रदायिनी । वैशाखे तृतीयाऽक्षया कृष्ण सन्ततिकारिणी ॥ १२ ॥ ज्येष्ठे गगनराशी च कृष्णे शोकप्रणाशिनी। आषाढे दमती देवी (शान्तिदानाम) कृष्णे धर्मप्रकाशिनी ॥ १३ ॥ श्रावणे वै मधुमती कृष्णे स्याद्रपदायिनी । हरिताली भाद्रपदे कृष्णे कज्जलकामिनी ॥ १४॥ आश्विनेऽभ्यस्तपत्रा (हनसूया) च कृष्णे दशरथा तथा। कार्तिके कीर्तिदा नाम कृष्णे स्यात्कलिनाशिनी ॥ १५॥