________________
५२६
अपराजित पृच्छां
ब्रह्मेन्द्रादिमरुद्गणैः स्तुतिपरैरभ्यर्चितं ( परैः संसेविर्त ) योगिभिः । वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ १५ ॥ इति सद्यः ॥ गौरंकुङ्कुमपिञ्जरं सुतिलकं, ( व्यालोल ) ह्यापाण्डु गण्डस्थलम् । भ्रविक्षेपकटाक्षवीक्षणलसत्संसिक (बिम्बे तु) कर्णोप्तलम् ( बिंबं सकर्णोतलम् )। स्निग्धं विम्बफलाधरं प्रहासतं नीलालकालइ. कृतम् । वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥ १६ ॥
इति वामदेवः ॥
कालाभ्रभ्रमराञ्जनद्युतिनिभं (हरं ) व्यावृत्तपिङ्गेक्षणम् । बालेन्दुद्वयनिःसृतं (भालेन्दुधुतिभासितं ) सुदर्शनं प्रोद्भिन्नदंष्टाङ्कुरम् । सर्वप्रोत कपालशुक्तिसकलं ( शकलं ) व्याकीर्णमाशेखरम् । वन्दे दक्षिणमीश्वरस्य कुटिलं भ्रूभङ्गरौद्रं मुखम् ॥ १७ ॥ इत्यघोरः ॥
संवर्ताग्नितडित्प्रतप्तकनकप्रस्पर्द्धितेजोऽरुणम् गम्भीरध्वनिनिःसृतं सुदर्शनं प्रोद्भासिताम्राधरम् । बालेन्दुद्युतिलोलपिङ्गलजट ( भाजबद्धोरगम् वन्दे सिद्धसुरासुरेन्द्रसुनुतं तत्पुरुषस्याऽऽननम् ॥ १८ ॥ इति तत्पुरुषः ॥
व्यक्ताव्यक्तगुणोतरं च वरदं षट्त्रिंशतत्त्वाधिकम् । तस्मादुत्तरतत्वमक्षरमिति ध्येयं सदा योगिभिः । वन्दे तामसवर्जितेन मनसा सूक्ष्मातिसूक्ष्मं परम् । शान्तं पञ्चममीश्वरस्य वदनं खव्यापि तेजोमयम ॥ १९ ॥ इतीशानः ॥
( इतः परमष्टा विंशतिपर्यन्तं श्लोका लुप्ताः ) शैलजोक लिङ्गनन्देशसहस्त्राद्यर्चना ? । स्वाद्योद्भवस्तथा पुण्य शतसहस्राद्यतगा ? ॥ २९ ॥
सर्वात्ममादि लिङ्गानां रुद्रवेदसमुच्छ्रिते ? |
वृत्ते नागहते राम (श्च ) शतमष्टोत्तरं चयेत् ॥ ३० ॥ इति शतलिङ्गः
सर्वमयादि लिङ्गानां रुद्रोवेदसमुच्छ्रिते ।
एके नवति लिङ्गानि प्रत्येकं विषमैः पदैः ॥ ३१ ॥
घटितं सारितं चैव स्वयम्भु पार्थिवं तथा । शाणादि विहितं चाद्यं नदीमध्याच्च सारितम् ॥ ३२ ॥ स्वभु स्वयं भूमिजातं पार्थिवं नगपृष्ठगम् । एवं चतुर्विधं लिङ्गं बाणलिङ्गमतः परम् ॥ ३३ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाश प्रोक्तृ श्रीभुवन देवाचार्योक्त पर जितपृच्छाय पार्थिवलिङ्गव्यक्ताव्यक्तनिर्णयाधिकारो नाम चतुरुत्तरद्विशततमं सूत्रम् ॥