________________
१२०४) पार्थिवलिङ्गव्यक्ताव्यक्तनिर्णयो नाम चतुरुत्तर द्विशततमं सूत्रम् ॥
विश्वकर्मोवाच
पार्थिवस्य प्रवक्ष्यामि विधानं परमं शुभम् । पक्कं चैवमपकं वा पार्थिवं द्विविधं स्मृतम् ॥ १ ॥ तथाऽपक्कं प्रशंसन्ति आयुष्यं श्रीबलप्रदम् । तदनुक्रमयोगं च कथयामस्तवान्तिके ॥२॥ श्वेतां पीतां तथा रक्तां मृत्तिकां च समाहरेत् । तथा गोधूमचूर्ण तु माक्षिक चूर्णमेव तु ॥३॥ कपिलाया घृतं क्षीरं पञ्चक्षीरं च वृक्षजम् । गुडं च गुग्गुलं चैव चूर्णयित्वा च प्रक्षिपेत् ॥ ४॥ वर्जयित्वान्यद्रव्याणि लाक्षामयणकाम्बिकम् ? (लाक्षाकुद्दालकाम्बिकम्)। प्रतिक्षेपो वरण्डेषु मासं पक्षाधिकं तथा ॥ ५॥ ततस्तु कारयलिङ्गं विधियुक्तिक्रमैस्तथा। व्यक्ताव्यक्तमिदं कुर्याच्छाश्वतं सर्वकामदम् ॥६॥ अव्यक्तमिदमुक्तं तु व्यक्तमानं प्रवक्ष्यते । पूजाभागस्त्रिभागे तु वक्त्रस्य निर्गमं विदुः ॥७॥ मृहारुलोहशैलैश्च श्वेतं लिङ्गं तु कामदम् । पार्श्वलिङ्गसमायुक्तं तत्तन्मानेन तत्कुरु ॥ ८ ॥ लिङ्गार्चा पृथुमानं तद्विभक्तं वादशाङ्गलम् । चतुर्विंशतिकोच्छ्राये वक्त्रं वै द्वादशाङ्गुलम् ॥ ९ ॥ ललाटं व्यङ्गुलं प्रोक्तं भ्रनेत्रं द्वयङ्गुलं तथा । नासिका दयङ्गुला प्रोकाऽधरौ चैकंककाङ्गलौ ॥ १०॥ शलाकृतिः कण्ठरेखा हनुकाद्वयलायता । वेदाङ्गुलं पृथुवक्त्रं द्वयङ्गुला नासिकापुटिः ।। ११ ।। यङ्गलायतकं नेत्रं तन्मानं नेत्रकान्तरम् ।। चापाकारा च दृष्टिः स्याद् भ्रलता चाङ्गुलायता ॥ १२ ॥ बादशाङ्गुलविस्तारे कर्णावेकैककाङ्गुलौ । भ्रसमोत्सेधको चैव उभौ कौँ समानतः ॥ १३ ॥ जटामुकुटसंयुक्तं शशाङ्ककृतशेखरम् । शिवाननं कुण्डलादि दिव्याभरणभूषितम् ॥ १४ ॥
(शिवपञ्चवक्त्र भ्यानम् ) पालेयामलबिन्दुकुन्दधधल गोक्षीरफेनप्रभम् । भस्माभ्यामनगदेहदमनं ज्वालावलीलोचनम् ।