________________
(२०२) शैलजघाट्यादिलिङ्गनिर्णयो नाम बध्युत्तरविशततम सूत्रम् ॥
विश्वकर्मोवाच
अथात: सम्प्रवक्ष्यामि लिङ्गपीठकलक्षणम् । लिङ्गालन निलयादि प्रमाणं सूत्रमार्गतः ॥१॥ षत्रिंशत्करतो धस्तात् यावद्धस्त चतुष्टयम् । भवन्ति लिङ्गमानेन तदाधारादिकं विना ॥ २॥ चतुर्योऽध एकहस्तं द्विहस्तं वा त्रिहस्तकम् । न कुर्याद घाट्यलिङ्गेषु शैलज रत्नजं विना ॥३॥ हस्तमानं भवेल्लिङ्ग वेदहस्ते सुरालये । सप्तवेदांशं तु लिङ्ग षट्स्यशेन हस्तकम् ॥ ४ ॥ पश्चादि भूतवेदान्तं प्रासादहस्तसङ्ख्यया। मध्यम पञ्चमांशेन हस्तादि नवान्तकम् ? ॥५॥ ऋत्वादि युगतत्वान्ता हस्तसङ्ख्या शिवालये। षडशेन प्रकर्तव्या हस्तादि नव अन्तिकम् ? ॥ ६ ॥ ज्येष्ठलिङ्गे प्रकर्तव्याः प्रासादाश्च कनिष्ठकाः । मध्यमे मध्यमा युक्ताः कनिष्ठे लिङ्ग उत्तमाः ॥७॥ सीमामानेनेति लिङ्गमेकहस्तात् नवानाकम् । पुनश्चान्मदतोऽप्येवं गर्भमानादि कथ्यते ॥ ८॥ प्रासादमानतो लिङ्गं निलया लिङ्गमानतः। विधातव्यं मानयुक्तं दोषो न्यूनाधिके भवेत् ॥९॥ गर्भाधेन तु यल्लिङ्गं तत्कनिष्ठमुदाहृतम् । विभक्त पञ्चधा गर्भ ज्येष्ठं लिङ्ग त्रिभागतः ॥ १० ॥ नवधा भाजिते गर्भ मध्यमं पञ्चभागतः । कार्य तदन्तरतो वै एकैकस्य त्रिकं त्रिकम् ॥ ११ ॥ ज्येष्ठाधश्च कनिष्ठो विभक्तं च नवांशतः। त्रिकं ज्येष्ठं त्रिक मध्यं त्रिकं चैव कनिष्ठकम् ॥ १२ ॥ त्रिधा विभक्तगभैषु चैकांशं गर्भमानतः।
साधारणमिति प्रोक्तं ज्येष्ठमध्यकनिष्ठकम् ॥ १३ ॥ अपराजित उवाच
न्यूनाधिकोक्त लिङ्गानि लयं वा तन्यूनाधिकम् ।
द्वारनिलयोद्भवाद्यस्तु ? तत्र दोषाः कथं प्रभो ॥ १४ ॥ विश्वकर्मोवाच
अर्चालिङ्गोद्भवं मानं वेश्मांशे स्वपराजित । . . न्यूनाधिको न कर्तव्यः प्रासादः सूत्रतः क्रमात ॥१५॥