________________
अपगजियपृच्छा वेश्म न्यूनाधिकं शस्तं स्वभुवाणे च रस्नजे । घटितेषु विधिः ख्यातो ह्य लिङ्गेषु तत्वतः ॥ १६ ॥ धातुजे रत्नजे चैव स्वभुषाणे च दारुजे। घेश्म न्यूनाधिकं प्रोक्तं वालिङ्गे तु पार्थिवे ॥ १७ ॥ शैलजे घाट्यलिङ्गे तु विधिरुक्तश्व शास्त्रतः। कर्तय॑ सूत्रकारेण प्रमाणं चानुपूर्वशः॥१८॥ मृदार शैललोहानामायामो युगनेत्रांशकैः (वेदयुग्मांशक:) रसैः सार्धसप्तभिश्च वसुभीरन्ध्रकैस्तथा ॥ १९ ॥ चतुर्विधश्च विष्कम्भः कर्तव्यः शास्त्रपारगैः । सुरगणार्चिता नाद्यं आद्यं सर्वसमादि सैसकम् ॥ २० ॥ विष्कम्भ रहितायामं कृत्वा रुद्रांशमर्धतः । अष्टभि वैष्णवं ज्ञेयं चतुर्भि ब्रह्मणस्तथा ॥ २१ ॥ नाहपादेन विष्कंभ ऋषिभि ब्रह्मणः पदम् । अष्टभि वैष्णवं ज्ञेयं रुद्रांशं ग्रहसङ्ख्यया ॥ २२ ॥ इत्थमन्यश्च कर्तव्यं लिङ्गं सुरगणार्चितम् । तस्य तावत्पुनस्त्वेवं कर्तव्यं तत्त्वनायकम् ॥ २३ ॥ विष्कम्भं सार्धसप्तांशं पादोनाष्टांशमाउजजम् । अष्टभि वैष्णव शैवं सपादाभिरेव च ।। २४ ॥ अनाधनामतः प्रोक्त मन्यदू मानं च वक्ष्यते । विष्कम्भ नवभाग स्यात् सार्धाष्टांशं " पितामहः " ॥ २५ ॥ अभि वैष्णवं शेयं माहेशं लार्धसप्तकम् । इदमन्यच कर्तब्यमनाद्यलिङ्गलक्षणम् ॥ २६ ॥ मूले मध्ये तथाने च विस्तारायामतः समम् । सर्वतः सदृशं चैव लिङ्ग वै सर्वतः समम् ॥ २७ ॥ विवर्ताक्षं वर्द्धमान श्रीपुजं नन्दिवर्धनम् । चत्वार्युत्तमलिङ्गानि क्रमो गुरूपदेशतः ॥ २८॥ घासुदेवादिकं लिङ्ग सप्तेन्दुभ्यां षडिन्दुतः। इषुशब्दाशुगक्ष्माभ्यां पृथु युक्तं च लिङ्गकम् ॥ २९ ॥ सप्तेन्दुभ्यो विवर्ताख्यं षट्चन्द्रौ वर्धमानकम् । इषुशन्दौ च श्रीपुलं युगक्ष्मे नन्दिवर्धनम् ॥ ३०॥ विष्कम्यं रहितायाम शेष ? (शिवं ) चन्दाशमर्धतः । षट्चन्द्रायतो विष्णुः शंष ब्रह्मण उच्यते ॥३१॥ समस्तानां हि लिङ्गानां ब्रह्मादौ चतुरनकः । कर्णसूत्रात्मुक्तकोणे विगुरष्टाश्रको भवेत् ॥ ३२॥ ब्रह्मादिस्थानतो लुप्तो वृत्ताकारसमुद्भवः । पूजाभाग ऊर्ध्वतः स्याद्रांशो वृत्तसंशकः ॥ ३३ ॥ विस्तारं चास्य लिङ्गस्य तदन्तमुपलक्षयेत् । विभक्ति मस्तके तेषां लिङ्गानां पञ्चधा भवेत् ।। ३४ ॥