________________
अपराजितपृच्छा तथा मुद्गप्रमाणेन पूर्वमानविकल्पनात् । द्विचत्वारिंशदुत्तर चतुर्दश शतानि च ॥१७॥ मुद्गप्रमाणलिङ्गानामेकैक दशभेदतः। चतुर्दशसहलाने सविंशतिचतुःशतम् ॥ १८॥ इति शास्त्रोक्तलिङ्गानां मानसख्या समीरिता। उक्तमन्तरमानं च निलयांश्च वदाम्यहम् ॥ १९॥ .
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां शैलजलिङ्गहस्ताङ्गुलप्रमाणनिर्णयाधिकारो नामैकोत्तरद्विशततम सूत्रम् ॥