________________
(२०१) शैलजलिङ्गहस्ताङ्गुलप्रमाण निर्णयो नामैकोत्तर
द्विशततमं सूत्रम्॥
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि शैललिङ्गप्रमाणकम् । हस्तादि नवान्तं लिङ्गनवकं हस्तवृद्धितः ॥१॥ हस्ताधश्च न कर्तव्यं लिङ्ग शैलमयं तथा । तदूर्व तु प्रकर्तव्यं प्रस्तारानुक्रमेण च ॥२॥ सूत्रहस्तादथारभ्य पादवृद्धया त्रिहस्तकम् । कनिष्ठनवलिङ्गानां पादवृद्धिरनुक्रमात् ॥३॥ मध्यमानि च लिङ्गानि पादवृद्धया नव क्रमात् । युगहस्तादितश्चैवं तथा षड्ढस्तकावधि ॥ ४ ॥ आयामे सप्तहस्तं च नवहस्तान्तमेव च ।। उत्तम लिङ्गनवकं पादवृद्धया यथक्रमम् ॥ ५॥ त्रिचतुर्हस्तयोर्मध्ये षट्सप्तकरयोरपि । पादवृद्धया श्रीणि त्रीणि षड्लिङ्गानां समुद्भवः ॥६॥ सङ्ख्यातानि प्रयस्त्रिंश लिङ्गानि पादवृद्धितः । हस्तादि नवहस्तान्तं प्रयस्त्रिंशश्च सख्यया ॥७॥ अभिधानक्रमं तेषां कथयाम्यपराजित । अनुक्रमेण ख्यातानि त्रयस्त्रिशश्च सख्यया ॥८॥ भवं भवोद्भवं भावं संसारभयनाशनम् । पाशयुक्तं महातेजो महादेवं परात्परम् ॥९॥ ईश्वरं शेखर शिवं शान्तं वै मनोह्यादकम् । रुद्रतेजः (सदात्मक) वामदेवमघोरकम् ।। १०॥ तत्पुरुषं तथेशान मृत्युञ्जयं च विजयम् । किरणाक्षमघोरानं श्रीकण्ठं पुण्यवर्द्धनम् ॥ ११॥ पुण्डरीक सुवक्त्रास्यमुमातेजो विश्वेश्वरम् । त्रिनेत्रं ऽयम्बकं नाम (घोरं) महाकालं च नामतः ॥ १२ ॥ प्रयस्त्रिंशत् पादवृद्धया हस्तादिक नवान्तकम् । पादार्धवृद्धया च पुनः पञ्चषष्टिश्च सङ्ख्या ॥ १३ ॥ त्रिकोनशतलिङ्गानि तथायगुलघृद्धितः। तथैकाङ्गुलवृद्धया तु त्रिनवस्यधिकं शतम् ॥ १४॥ पवमर्धागुलवृद्धया लिङ्गसङ्ख्या मनुक्रमात् । पञ्चाशीत्यधिकं चैव शतत्रयमुदाहृतम् ॥ १५ ॥ अङ्गुलवेदांशयुक्त्या क्रमशो वृद्धितस्तथा। एकोनसप्तत्युत्तर-सप्तशतान्यनुक्रमात् ॥ १६ ॥