________________
(२००) दारुलिङ्ग निर्णयो नाम द्विशततमं सूत्रम् ॥
वक्ष्यामि दारुजं लिङ्गं धर्मकामार्थमोक्षदम् । तदनुक्रमयुक्तीश्च कथयाम्यपराजित ॥ १ ॥ द्वयष्टकाङ्गुलमाद्यं स्यात् षड्ढस्तान्तं समुच्छ्रितम् । तन्मध्यानुक्रमं वच्मि मुक्तिकामार्थदेतवे ॥ २ ॥ षोडशाङ्गुलमाद्यं स्यात् क्रमात् षोडशवृद्धितः । विधेयं लिङ्गनवकं षट्करान्तं प्रकीर्तितम् ॥ ३ ॥ मकरेन्दु त्यक्तमाल ? पुष्पाक्षं तु सिद्धार्थकम् | दण्डाख्यं पौरुषं कायं पुष्पकं च फलोद्भवम् ॥ ४ ॥ एवं च नवलिङ्गानि सर्वकामार्थदानि च । उक्तानि यानि वै दारु-भयानि शिवशासने ॥ ५ ॥ चन्दनो देवदारुश्व रक्तचन्दन एव च । सर्पश्च शिशपाश्चैव शिरीषाशोक कौ तथा ॥ ६॥ कर्पूरागरुकौ चैव हिन्तालमधुपादपाः । तथा खदिरकश्चैव पारिजातकपङ्कजाः ॥ ७ ॥ श्रीफललवङ्गाक्षोराञ्जनकाश्च तथैव च । बीकार्जुनको वृक्षा अन्ये ये च दृढात्मकाः ॥ ८ ॥ निर्माणाः सुदृढाः कार्याः प्राञ्जला दोषवर्जिताः । शाखोद्भवादिक भेदग्रन्थिकोटरवर्जिताः ॥ ९ ॥ षोडशाङ्गुलतो हीनं लिङ्गं कुर्यान्न दारुजम् । षोडशाङ्गुलतो वृद्धि नैवलिङ्गेषु कीर्तिता ॥ १० ॥ तथाष्टकनिबन्धे च षोडशाङ्गुलवृद्धितः । अष्टाविंशत्युत्तरञ्च शतं लिङ्गानि सङ्ख्यया ॥ ११ ॥ पुनश्चाङ्गुलमध्येऽष्टौ लिङ्गानि मुद्गमानतः । पञ्चविंशत्युत्तरकसहस्रं सङ्ख्यया भवेत् ॥ १२ ॥ निलयं दारुजं कुर्यादिष्टिकाभिस्तथोच्यते । निलयद्रव्यादिन्यूनं दारुजं न प्रकास्यते ॥ १३ ॥ शैलजे चाऽथ प्रासादे कुर्यालिङ्गं च शाश्वतम् । स्वभुषाणं तथ घाटयं रत्नजं धातुजं तथा ॥ १४ ॥ सर्वाणीमानि लिङ्गानि निलये शैलजे हि वै । दारुजे दारुजं शस्तं धातुजे धातुरत्नजम् ॥ १५ ॥ इत्येवं मानमुद्दिष्टं दारुलिङ्गप्रमाणतः ( कम् ) । द्वयष्टकाङ्गुलमाद्यं स्यात् षट्करं चान्ततस्तथा ॥ १६ ॥
विश्वकर्मोवाच
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्ता पराजित पृच्छाय दारुलिङ्गनिर्णयाधिकारो नाम द्विशततमं सूत्रम् ॥