________________
५१५
अपराजितपृच्छा ब्रह्मादौ मध्यमे विष्णू रुद्रश्चान्ते प्रकीर्तितः। कार्यलयंस्तथायाम एकांशं च पुथुत्वकम् ॥ १७ ॥ मस्तकावर्त्तनं मध्ये बाह्ये वै राष्ट्रविभ्रमः । मस्तकान्तोद्भव पीठं पाङ्गेि तु प्रदक्षिणम् ॥१८॥ अष्टाङ्गुलभवं लिङ्गं पूज्यते चक्रवर्तिभिः । सप्ताङ्गुलं महाराजै महीपालैश्च भक्तितः ॥ १९ ॥ षडङ्गलात्मकं लिजमहामण्डलकेश्वरः। पञ्चाङ्गुलं तथा लिङ्गमर्थ्य वै भुक्तिकामकैः ॥ २०॥ महासामन्तसंस्तु लिङ्गं वेदाङ्गुलोच्छितम् । ध्यङ्गुलं चैव सामन्तै भुक्तिकामैश्च पूजितम् ॥ २१॥ त्यङ्गुलात्मकमध्यं च तथैव द्वयङ्गुलायतम् । मुक्त्यर्थ यतिभिश्चैव पूजनीयमशङ्कितैः ॥ २२ ॥ अङ्गुलद्वयमध्यं च जनैः सर्वे हितार्थदम् । तथैकाङ्गलिक मध्ये सर्वकामार्थमुक्तिदम् ॥ २३ ॥ मनोहरादितो लिङ्ग यावत्स्यान्नन्दिवर्धनम् । कार्य रत्नमयं चैव धर्मकामार्थमोक्षदम् ॥ २४॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया
मष्टलोहमयलिङ्गनिर्णयाधिकारो नाम नवनवत्युत्तरशततमं सूत्रम् ॥