________________
(१९९) अष्टलोहमयलिङ्गनिर्णयो नाम नवनवत्युत्तरशतप्तमं सूत्रम् ॥
विश्वकर्मोवाच
लोहादिधातुजातानि वच्मि लिङ्गानि सम्प्रति । अष्टाङ्गलं भवेदार्थ निहस्तान्तं च तद्भवेत् ।। १ ॥ अष्टाङ्गुलादयो लिङ्गा वृद्धिरष्टाङ्गलकमात्। इत्थं तु नवलिङ्गानि कनिष्ठं त्रिकरोच्छितम् ॥ २॥ नवलिङ्गाभिधानानि कथयिष्याम्यनुक्रमात् । थियोद्भवं महाकान्तं प्रोद्यन्तं सम्भवं तथा ॥३॥ सोमराज महाराज राजलिङ्ग महान्तकम् । वृषध्वज तथाख्यातं लिङ्गं च नवमं भवेत् ॥४॥ लिङ्गाष्टक निबन्धे तु धातुलिङ्गाङ्गलान्तरे । कुर्यादाधं चाष्टकोचे तश्चैकैकाङ्गलान्तरे ॥५॥ अष्टाभिरष्टकरेवं चतुःषष्टिश्च सङ्ख्यया। एकेकाङ्गलमध्ये तु लिङ्गाष्टकमुदाहृतम् ॥ ६॥ शिवं शर्व जयं चैव सुनाभं च जयावहम् । विजयं भासुरं साक्षमष्टलिङ्गाङ्गलान्तरे ।। ७ ॥ अष्टकोचे पुनस्त्वेवमभिधानान्यष्टावधि । पुनश्चाङ्गलमध्येष्ठौ लिङ्गानि मुद्गमानतः॥ ८॥ मनोहरं श्रीमुखाख्यं रुद्रतेजो महोत्सवम् । आनन्दं च सुवक्त्राख्यं श्रीपुञ्जम् नन्दिवर्द्धनम् ॥ ९॥ इत्युक्तान्यष्टलिङ्गानि मुद्गतुल्यानि मानतः। अङ्गुलाङ्गुलतो वृद्धि र्लिङ्गानां कथिता क्रमात् ॥ १०॥ चतुःषष्टिश्च लिङ्गानिभूयोऽष्टाङ्गलमध्यतः। इत्थं लिङ्गानि द्वादशो-त्तर पञ्चशतानि च ॥ ११ ॥ अष्टलोहमयानां च लिङ्गानां तु प्रमाण कम् ।। सयोनिमानसंयुक्त सर्वकामार्थ साधकम् ॥ १२ ।। हेमं रौप्यं तथा तानं कांस्यं च पित्तलं तथा। अपु नाग: सप्तमः स्याकृष्ण लोहं तथाऽष्टमम् ॥ १३ ॥ इति चाष्टौ लोहकाद्या धातवः परिकीर्तिताः। कामदानि च कार्याणि अष्टलोहमयानि च ॥ १४ ॥ लोह मिथं च कर्तव्य सुधेव सर्वकामदम् । सयोनिमानसंयुक्तमिच्छाभुक्ति प्रदायकम् ॥ १५ ॥ लोहादिलिङ्गकायामप्रमाणं कामदं तथा। पुनर्विभक्तं च त्रिधा ब्रह्मविष्णुरुद्रांशकम् ॥ १६ ॥