________________
अपराजितपृच्छा धर्मकाम्यं चार्थऽकाम्यं तथेच्छामोक्षकाम्यके । चतुर्विधानि काम्यानि लिङ्गयोन्यादिभेदतः ॥ १७ ॥ यादृग्वर्ण भवेल्लिङ्गं तादृग्वर्ण च पीठकम् । धर्मकाम्यं च तदयद्वै धर्मार्थ स्यात् सुपूजितम् ॥ १८ ॥ नीलमर्कतर्ज लिङ्गं पीठिका श्वेतवर्णिका । अर्थकाभ्यं तु तन्नाम पूजितं चार्थहेतवे ॥ १९ ॥ श्वेतरते यदा वणे इच्छाकाम्यं च नामतः । इच्छासिद्धिं स प्राप्नोति यस्तलिङ्गार्चने रतः ॥२० ।। धातुरस्नै विवर्णा च श्वेतपीतादित स्तथा । मोक्ष्यकाम्यं तु तत्प्रोक्तं मुक्तिमार्गप्रदायकम् ॥ २१ ॥ धमार्थकाममोक्षार्थ लिङ्गार्चा स्याश्चतुर्विधा। मूलागमे च निर्दिष्टं शास्त्ररुक्तमेव च ॥ २२॥ सर्वरत्नजलिङ्गानि पाद्यस्नानकसूत्रतः?। ब्रह्मविष्णुरुद्रांशकैः क्रमाल्लिङ्गं त्रिधोदितम् ॥ २३ ।। विना ब्रह्मविष्ण्वंशाभ्यां बाण स्याद्रत्नधातुअम् । मुद्गाकार मिदं चैकरुद्रांशं च सुशोभनम् ॥ २४ ॥ लिङ्गमानेन पीठं स्थात् पीठमानेन रुद्रकः । भ्रामयेत् परिधौ वृत्तं रुद्रांशपङ्क्तिपार्श्वतः ॥ २५ ॥ तत्तल्यमग्रमानं च कन्दव्यासोर्ध्वमग्रतः?। समेखलाः प्रकर्तव्याः सव्रणा मार्गमूर्छिता: १ ॥ २६ ॥ एकादिहस्तप्रासादाः पश्चाशद्धस्तकावधि । रत्नलिङ्गेषु कर्तव्या नन्यूनाधिकदूषणम् ।। २७ ॥ रत्नधातुजलिङ्गानां बाणादेश्च स्वयंभुवः । निलयं न्यूनमधिकं कुर्याद्वै सर्वकामदम् ॥२८॥ द्रव्यानुरूपतः कुर्यानिलयं स्वेच्छया नरः । नागरा द्राविडाश्चैव वगटा मिश्रकास्तथा ।। २९ ॥ लतिनाश्चैव सान्धारा विमाना भूमिजास्तथा। देशजातिकुलस्थानवर्णभेदानुरूपतः ॥ ३० ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
रत्नजलिङ्गप्रमाणाधिकारो नामाष्टनवत्युत्तरशततम सूत्रम् ॥