________________
( १९८) रत्नज लिङ्गप्रमाणमष्टनवत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अत ऊर्ध्वं प्रवक्ष्यामि रत्नजादिकलक्षणम् । रत्नजं धातुजं चैव लोहाष्टकविनिर्मितम् ॥ १ ॥
तथाऽनुक्रमसूत्रं च प्रमाणं यस्य यादृशम् । यथाक्रमं विधातव्यं यथापति ? (प्रातं) पृथक् पृथक् ॥ २ ॥ मुद्गप्रमाणाद्योद्भव रुद्रभागेति सङ्ख्यया ? । येषां प्रविष्टमानाय ब्रह्माद्यै वैष्णवान्तिकम् ? ॥ ३ ॥ भद्रभागोद्भवा सङ्ख्या अङ्गुलै र्वर्धयेत्त्रयम् ? । वललिङ्गस्य विधाख्या च ब्रह्मरुद्धां च कैतवम् ? ॥ ४ ॥ एकाद्यङ्गुलतो वृद्धिं नवान्तामुपलक्षयेत् । तदभिधानानुक्रमं कथयाम्पराजित ॥ ५ ॥ शिवं शर्व जयं लिङ्गं सुनाभं च जयावहम् । विजयं भासुरं मोक्षं सर्वजं नवमं मतम् ॥ ६ ॥ अभिधानप्रमाणानि लिङ्गान्युक्तानि वै नव । अङ्गुलाङ्गुलान्तरतः लिङ्गानां वर्धते क्रमः ॥ ७ ॥ एकाङ्गुलोद्भवं मध्ये लिङ्गान्यष्टौ यथाक्रमम् । मुदगप्रमाणान्यष्टौ च शास्त्रदृष्ट्रा ततः क्रमात् ॥ ८ ॥ मनोहरं श्रीमुखाख्यं रुद्रतेजो महोत्सवम् । आनन्दं च सुवक्त्राख्यं श्रीपुञ्ज नन्दिवर्धनम् ॥ ९ ॥ इति मुद्गप्रमाणानि लिङ्गान्युक्तानि चाडष्ट वै । अङ्गुलक्रमवृद्धयाऽष्टावन्यानि कथितानि च ॥ १० ॥ द्वासप्ततिश्च लिङ्गानां सङ्ख्या चैव प्रमाणतः I अष्टाङ्गुलोद्भवान्तं च पुन नीमानि पूर्ववत् ॥ ११ ॥ रत्नजानां तु नामानि कथितान्यपराजित | सर्वरत्नोद्भवं लिङ्गं कर्तव्यं सर्वकामदम् ॥ १२ ॥ वज्रवैडूयोर्क कान्ति पुष्परागेन्दुकान्तिभिः । मणि मौक्तिकस्फाटिक राजावर्त प्रवालकैः ॥ १३ ॥ मरकतोत्पलनीलैः कर्कतै पुलकस्तथा । महानीलैः सुनीलैश्च गिरिवत्रैश्च पीलुतैः ॥ १४ ॥ गोमेदेश्च शिखादपै रितिरत्नाभिधानकैः । शखाधै गजदन्तैश्व लिङ्गं कुर्याच्च कामदम् ॥ १५ ॥ लयोनिमानसंयुक्तं सर्वकामफलप्रदम् ।
विना योनिं न कर्तव्यं धातुजं रत्नजं तथा ॥ १६ ॥