________________
अपराजितपृच्छा देवीमिश्च समस्ताभि रष्टलोहमयं तथा। भैरवैः क्षेत्रपालेश्च त्रिजद्यात्मकमर्चितम् ? ॥ १८॥ योगिनीभि दिव्यलिङ्गं ब्रह्मरन्ध्र च ध्यानजम् । शैलज पार्थिवं लिङ्ग धातुजं रत्नजं तथा ॥ १९ ॥ धर्मार्थकाममोक्षं च प्राप्नोति मनसि स्थितम् । लिङ्ग देवो रत्नजं च मुक्तिकामै नरेश्वरैः। धातुई शान्तिदं पूज्यं राजमि मुक्तिकीर्तिदम् ॥ २०॥ . शैलजं च प्रवक्ष्यामि ह्यष्टवर्णमुदा हृतम् । श्वेतं च पद्मवर्ण च कुमुदाभं च मुदगभम् ॥२१॥ पाण्डुरं माक्षिकनिभं कपोताभं च भङ्गमम् । श्वेतै विप्रा प्रवर्द्धन्ते राजानः पद्मवर्णकैः ॥ २२ ॥ वैश्याः कुमुदवर्गश्च मुद्गाभैः शूद्रजातयः। शेषवणैस्तथा चैव सामान्याननुलक्षयेत् ॥ २३ ॥ आरोग्यं पाण्डवणे स्यान् माक्षिके विजयः स्मृतः। कपोते चार्थवृद्धिश्च भङ्गाभे सुप्रजाः स्त्रियः ।। २४ ।। पृथ्वीमयं पार्थिवं स्याद द्विधा तञ्चैव भेदतः। पक्कापक्क रेणुकाभिः सुखलिङ्गं प्रकीर्तितम् ॥ २५ ॥ सौभाग्यदं कुङ्कुमाढथैः कर्पूरैः कामदं तथा। कस्तूरिकाभवं लिङ्ग भुक्तिकामादिभोगदम् ॥ २६ ॥ मातुलिङ्गभवं पूज्यं भुक्तिकामैश्च राज्यदम् । मध्यगं करवीराणां पूजितं श्रीपदं भवेत् ॥ २७ ॥ सन्तानवृद्धिदं पूज्यं लिङ्गं सर्वफलोद्भवम् । यद्यत्फलोद्भवं लिङ्गं तैः फलै नोपजीवयेत् ।। २८ ॥ चित्रेऽथवागमेवाऽपि नियमार्थ सुपूजितम् । तथाक्षतमयं पूज्यं मन्त्रलिङ्गं च पूजयेत् ॥ २९ ॥ उकृत्वा षडक्षरं मन्त्रं पुण्यं लिङ्गस्य दर्शनम् ।।
पञ्चवारं समुश्चार्य लिङ्गवक्त्रादिदर्शनम् ॥ ३०॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां लिङ्गार्चन
विध्यधिकारो नाम सप्तनवत्युत्तरशततमं सूत्रम् ॥