________________
(१९७) लिङ्गाचैनविधिर्नाम सप्तनवत्युतरशततमं सूत्रम् ॥
विश्वकर्मोवाच
पुरा चाऽऽराधितं लिङ्गं धर्मभक्तिरतैस्तथा ।
.
लिङ्गं भद्र स्वरूपे च सम्प्राप्तः परमां गतिम् ॥ १ ॥ शक्रेणाराधितो देवो लिङ्गं वज्रमयं स्मृतम् । सुरराजपदं प्राप्तं रम्भाशक्ति युतात्मभिः ? ॥ २ ॥ धनदाराधितो देषो लिङ्गं स्वर्णमयं तथा । सम्प्राप्तो धनदत्वं च स्वयोनौ नात्र संशयः ॥ ३ ॥ विश्वेदेवाराधितो वै लिङ्गं रूप्यमर्थं स्मृतम् । प्राप्तः स विश्वेदेवत्वं स्वयोनौ नात्र संशयः ॥ ४ ॥ मारुताराधितो देवो लिङ्गं वै पित्तलात्मकम् । पवनश्वं स्म प्राप्नोति स्वयोनौ नात्र संशयः ॥ ५ ॥ आराधितोऽष्ट वसुभि र्लिङ्गं कांस्यमयं स्मृतम् ।
वाद्यपदं प्राप्तं स्वयोनौ नात्र संशयः ॥ ६ ॥ मरीच्यादिगणै देवः स्वल्प ? लिङ्गं पुरार्चितम् । 'शतार्ध विना वेकैश्च ? प्राप्ता देवपदं तथा ॥ ७ ॥ तथा व्यन्तरजै देवो लिङ्गं वै पित्तलात्मकम् । आराधितं ततस्ते वै मुक्तिं प्राप्ता स्वयोनितः ॥ ८ ॥ शीशकोद्भवलिङ्गं तु पैशाचै रचितं पुरा । मुर्ती प्राप्तास्तेन ते च स्वयोने नत्र संशयः ॥ ९ ॥ argharद्यैश्च नागैश्च लिङ्गं तद्रयमनोर्चितम् ? | ततः पातालराज्यं तु सम्प्राप्ताः कुलपन्नगाः ॥ १० ॥ दप्तिं वार्चितं लिङ्गं ज्योतिर्मण्डलमध्यगम् । हुताशनः पदं प्राप्तः सर्वदेवमुखं तथा ॥ ११ ॥ सूर्यकान्तमयं लिङ्गमादित्येन पुरार्चितम् । सूर्यत्वं च पदं प्राप्तं स्वयोनौ नात्र संशयः ॥ १२ ॥ चन्द्रकान्तमयं लिङ्गं सोमेन च पुरार्चितम् । प्राप्तं नक्षत्राधिपत्यं स्वयोनौ नात्र संशयः ॥ १३ ॥ प्रधालकमयं लिङ्गं पुरा मङ्गलपूजितम् । बुधेनाराधितं लिङ्ग मिन्द्रनीलमचं पुरा ॥ १४ ॥ पुष्परागमयं लिङ्गं वाचस्पति सुपूजितम् । शुक्रेण वै शङ्खमयं शनिना कृष्णनीलजम् ॥ १५ ॥ केतुना वैडूर्यमयं गोमेधीयं च राहुणा । आर्हतैः पूजितं लिङ्गं शुद्धस्फटिकजं तथा ॥ १६ ॥ महालिङ्गं हैमवतं ब्रह्मणा स्वयमर्चितम् । हेमकूटे विरूपाक्षं तज्जनार्दनपूजितम् ॥ १७ ॥