________________
ब्रह्मविष्णुसंवादे लिङ्गाधिकारा नाम षण्णवत्युत्तरशततमं सूत्रम् ॥
केतक्युवाच --
लिङ्गमस्तकतश्चाऽमानीता परमेष्ठिना । मम सत्यमिदं वाक्यं नाऽनृतं परमेश्वर ॥ ३२ ॥ अधेश्वरेणाऽनुवाक्यं शापिता गन्धमादनी । परोपकारहेतुत्वे पूजानही भविष्यति ॥ ३३ ॥ पञ्चमं तु शिरश्छिन्नं ब्रह्मणोऽनृतवादिनः । अनामिकाङ्गुष्ठकोटान्निहतं च तदाननम् ॥ ३४ ॥ त्रुटितं चेश्वरकरे लग्नं तद् ब्रह्मणः शिरः । अथ स्मृतं स्कन्दवाक्यं हन्याssसन्मिम नानृतम् ॥ ३५ ॥ आहूतश्च तथा नीतो मयूरस्थः षडाननः । प्रणतश्च तदा देवः स्कन्देन परमेश्वरः ॥ ३६ ॥
ईश्वर उवाच --
भो पुत्र ते महद् ज्ञानं सत्यवादी षडानन । करावलोकमात्रेण हित्यं भाष्यं तु कार्त्तिक ॥ ३७ ॥ वाक्यं स्कन्दपुराणस्य नाऽसत्यं तु षडानन । वरं ब्रूहि च दास्यामि व्यक्तोऽहं तव कार्तिक ॥ ३८ ॥ चामोतो दैत्यै गृहीत्वा क्षिप्त आर्णवे । तदा त्यक्तं मया देव न कृतं ग्रन्थशासनम् । ३९ ॥ तदाऽभवदीश्वराज्ञा आश्वानय जलाधिपम् । वरुणस्त्वाऽऽगतश्चाऽयमीशायाग्दाच्च भक्तितः ॥ ४० ॥ सदामृतं ! वरुणेन्द्र ममाज्ञातस्त्वमाशु वै । त्वयि क्षिप्तं यथा ग्रन्थमर्पयस्वाऽन्यतोऽपि वा ॥ ४१ ॥ मैनाकः पर्वतो नामार्णचोपकण्ठवासवात्।
ग्रन्थ स्तस्या करें क्षिप्तो रक्षणीयो भयातुरैः ॥ ४२ ॥ तदानीय स्कन्दागमं पुराणलक्षणान्वितम् । समर्पयन्महादेवे भक्तिमांस्तु जलाधिपः । तुष्टोऽहं चाम्बुराजेन्द्र ग्रन्थो भक्त्या नगे धृतः ॥ ४३ ॥ वरं ब्रूहि च दास्यामि इच्छितं च मनःस्थितम् । नासत्यं नान्यथा चैव ददामि यत्त्वयेप्सितम् ॥ ४४ ॥ मन्मुखे तथा चैव जल्पनीयं जलाधिप । अस्मद्भक्त्या यदा तुष्टो दास्यसि त्वमभीप्सितम् ॥ ४५ ॥ अस्माकमभिधानेन चेदं शास्त्रं महीतले ।
तथा चाऽस्तु शिवज्ञानं ( वाज्ञातः ) यावत्कल्पान्तमेव च ॥ ४६ ॥ स्कन्दपुराणोद्भवं स्यात्सामुद्रमभिधानतः । सर्वलक्षणमत्रोक्तं पुरुषादेस्तथैव च ॥ ४७ ॥
अभ्वगजेन्द्र महिष गोवृषादिकजन्मनाम् । आयुर्लक्षणोपेतं मृत्यवादि कालवञ्चना ॥ ४८ ॥
५०७