________________
५०८
अपराजितपृच्छा तीर्थयात्रादि नियमो बतानां सारमुद्धृतम् । कापालिकोद्भवं वेषं ? निष्कासदर्शनोद्भवम् ? ॥ ४९ ॥ अष्टादशैव भेदाश्च महाव्रतसमुद्भवाः। वाराणस्यां गङ्गातीरे कपर्दी कनकेश्वरः ॥ ५० ॥ महेशो मुक्तवान् ब्रह्मकपालं तत्र पाणितः । तत्रस्थ स्तु महादेवः कपालेश्वरनामकः ॥५१॥ तत्र स्नातो नरो यस्तु ज्ञानादज्ञानतोऽपि वा। समुक्तो नाऽत्र सन्देहो ब्रह्महत्यादिपातकः। लभते धर्मार्थकाममोक्षांश्च मनसेप्सितान् ।। ५२ ।। तत्र काले समुद्भुत लिङ्गाकारस्वरूपिणः । ब्रह्मविष्ण्वादिका देवा भक्त्या वै पूजने रताः ॥ ५३ ।। देवदानवगन्धर्वाः पिशाचोरगराक्षसाः। सर्वे ते भक्तिमन्तश्च लिङ्गरूपरलताः ।। ५४ ।। न लिङ्गाचापरो देवो धर्मकामार्थमोक्षदः । इदं चैव जगत् सर्व लिङ्गरूपे लयं गतम् ।। ५५ ।। लयंगताश्च कल्पान्ते लिङ्गे जीवानुरूपकाः । उद्भूतं च पुनर्लिङ्गगाज्जगत्स्थावरजङ्गमम् ॥ ५६ ।। भूयश्चक्रोद्भवा तु राज्ञा मुद्राभिधानवर्तकाः ।। यत्रोत्पन्नं सृष्टिरूपं तद्पाः सृष्टिकाधिपाः ॥ ५७॥ सयोनिलिङ्गसम्भूताः सर्वे जीवानुरूपकाः। सृष्ट्यधिपो महादेवो नाऽन्ये चैष दिवौकसः ॥ ५८ ।। यदाकारो महादेव स्तद्रपः सृष्टिसम्भवः । शानचक्षुर्विना वेद नाऽन्यदेवस्य भक्तकः ॥ ५९ ॥ लिङ्गसृष्टयुद्भवं सर्व लिङ्गरूपाश्च देवताः। तद्योनिमात्रसम्युक्तं धर्मकामार्थमोक्षदम् ॥ ६० ।। लिङ्गोभूताः सर्वदेवा न कस्मालिङ्गसम्भवः । सृष्टयुद्भवः सयोनिश्च शिवशक्या चराचरम् ।। ६१ ॥ शिवलिङ्गोभवा शक्तिः शक्तिमांश्च शिवस्तथा । उभयोरपि संयोगा च्छिवशक्त्योश्चराचरम् ॥ ६२॥ शिवशक्तितश्च भवो देवतानामनुक्रमात् । तदुभवादिकं नैव विना लिङ्ग सृष्टयधिपम् ? ॥ ६३ ॥ आकाशं लिङ्गमित्याहुः क्षितिः स्थाजलहारिका । तन्मध्ये सर्वभूतात्मलयनालिङ्गमुच्यते ॥ ६४ ।। उच्छ्यो लिङ्गमित्याहुः पृथिवी तस्य पीठिका। उमा तु पीठिका शेया शङकरो लिङ्गमुच्यते ॥ ६५ ॥