________________
५०६
अपराजितपृच्छा तुष्टोऽहं युवयो भक्तौ वरदः समुपस्थितः । ब्रह्मन् विष्णो भवदूभ्याम् तत् प्रयच्छामि न संशयः ॥ १६ ॥ योजनायुतविस्तीर्णमुच्छितं च समन्ततः।। तन्मध्यतोऽवदवाक्यमुभौ वै थूयतामिति ॥ १७ ॥ ब्रह्मा चोर्ध्वमधो विष्णुरन्तं च बृहदात्मनः । तदशब्दोद्भवाज्ञानौ गतावूर्वमधस्तदा ॥ १८ ।। अधोधूमाकुलं दृष्ट्वा ततो विष्णुर्निवर्तितः। ब्रह्मोचे तु यदा याति केतकी सन्मुखेऽभवत् ॥ १९ ।।
ब्रह्मोवाच
भो भो गन्धमादनाक्षि कुतः स्थानात्वमागता ।
लिङ्गान्तं द्रष्टुकामोऽहं केतकि तत्र का कथा ॥ २० ।। केतक्युवाच
नैकयुगलहस्त्राणि आयाता लिङ्गमस्तकात् । तस्य व साक्ष्यमहं ब्रह्मन लिङ्गान्ताद्विनिवर्तिता ॥२१॥ गन्धमादनेति वाक्य ? ब्रह्मणः स्तुतिनन्दिता । त्वया (यि) समाहितात्मा च तव स्नेहान्निवर्तिता ॥ २२ ।। परमेष्ठी स केतक्या निवृत्तः क्ष्मातले तदा। लिङ्गाग्रे च समुत्थाय केतकी ब्रह्मणो हृदि ॥ २३ ॥ किमर्थमागतौ दृष्टं लिङ्गान्तमधऊर्ध्वतः ।
एवं वचोऽवदल्लिङ्ग ब्रूतं हरि पितामहौ ॥ २४॥ विष्णुरुवाच
नाऽन्तो दृष्टः श्रुतो वाऽपि न वा वेदागमादितः । धूमाकुलोऽवदद्विष्णु विशेषान्न मयेक्षितम् ॥ २५॥ मया दृष्टो नैव चाऽन्तो नैव चापि सुरासुरैः। . इत्युक्तानन्तरं चाध वचस्तु परमेष्ठिनः ॥२६॥
प्रह्मोवाच
अवदत् पञ्चमशिरो दृष्टोऽन्तो व्योमतः परम् । अमृतं जल्पितं चेन्मे साक्षिणी गन्धमादनी ।। २७ ।। ब्रूहि मेत्वं सत्यात्मिके पुष्पराजादिजातिके। मया ह्यन्तः परोदृष्टः निङ्गस्य व्योमतः परम् ॥ २८ ॥ कः साक्षी भवतः कार्य ईश्वरो लिङ्गमत्रवीत् ।
ज्ञानलिङ्गस्याऽन्तिके च समानीता पुष्पावती ॥ २९ ॥ ईश्वर उवाच
भो भो गन्धमादनाक्षि सत्यं वद पुष्पावती । नाऽनृतं सत्यमेवत्वमाख्याहि श्वेतकर्णिके ॥३०॥ तव वंशे नाऽनृतं च पुष्पदीर्घाग्रके खलु । वक्रकीट (क) कुलाकीणे वकाग्रे ब्रूहि शाश्वतम् ॥ ३१॥