________________
११९६) ब्रह्मविष्णुसंवादे लिङ्गाधिकारो नाम षण्णवत्युत्तरशततमं सूत्रम्॥
विश्वकर्मोवाच
पुरा चैकार्णवे घोरे नष्टे स्थावरजङ्गमे । . समुद्भतौ तदादेवौ ब्रह्मा विष्णु स्तथैव च ॥१॥ तदुदूभवा चाऽऽद्यसृष्टि जगत्स्थावरजङ्गम् । कल्पान्ते च तयो दो रौद्रे च दिवसे स्थिते ॥२॥ तयोर्विवदतोमध्ये लिङ्गं तेजोमयं महत् । उद्भिन्नं धरणी भिस्वा सप्तलोकमयं शुभं ॥३॥ सप्तलोकोयतो मेरुः प्रकारस्फुटितोदितः । त्रिदशकुलसभायां पीठिकानसमुभवः ॥४॥ वाचाऽशरीरिणी प्राह दीयतां मे तथोत्तरः । अस्य लिङ्गस्य को हन्तो मध्ये चाऽधस्तथोलतः॥५॥ स्रष्ट्रा प्रोक्तं च भगवन नाहं दृष्टा तव प्रभुः । ध्रुत्वा वाक्यं ब्रह्मणस्तु किञ्चिदाकुपिताननः ॥६॥ ब्रह्मविष्णूदुभवस्स्वेवं संवादोऽभूत्परस्परम् । अहं द्रक्ष्याम्यस्य चान्तं वदन्ता च परस्परम् ॥ ७ ॥ संवादो भयसम्पातमवलोक्य परस्परम् । द्वयो मध्येऽभवालङ्गं सुविस्तीर्ण महोद्भवम् ॥ ८॥ योजनायुतविस्तीर्ण मुभयोःसन्मुखेऽभवत् । शम्भुस्ताववदद्वाक्यं श्रूयतां वचनं मम ॥९॥ ब्रह्मा चोर्वे विष्णुरधः अन्तं च बृहदात्मनः। आगतौ च पुनस्तत्र लजयाधोमुखी स्थितौ । पुनरेव ततो वाणी लिङ्गमध्याद्विनिःसृता ॥९॥ नादयन्ती जगत्सर्वं मेघगम्भीरनिस्वना। न त्वं श्रेष्ठोऽसि वै ब्रह्मन् न च विष्णो त्वमीश्वरः ॥ १० ॥ अहं ज्येष्ठ स्तथेशश्च युवयोः प्रभुरेव च ।। भवद्भ्यां मम चैतस्य प्रमाणमुपलक्ष्यताम् ॥ ११॥ यश्चाऽस्य वेद वै चान्तं स श्रेष्ठो युवयो भवेत् । इत्युक्तौ तौ विलक्ष्यौ तु विप्लुतौ च दिदृक्षया ॥ १२ ॥ लिङ्गार्चनपरौ भूत्वा द्रष्टुकामौ व्यवस्थितौ । तत्प्रमाणपरौ भूत्वा तनिष्ठौ तत्परायणौ ॥ १३ ।। दिव्ये तु (sब्दे ) द्विशते पूर्णे ताभ्यां मध्येऽर्चितो हरः। . प्रत्यक्षतां गतो देवः परितुष्टेन चेतसा ॥ १४ ।। त्रिशूलपाणि वरदश्चार्धकृतशेखरः।
त्रिलोचनो वृषारूढो नागयज्ञोपवीतकः ॥ १५ ॥ ६४ अ.