________________
(१९५) ससमठ नवरथ निर्णयो नाम पञ्चनवत्युत्तरशततमं सूत्रम् ।।
विश्वकर्मोवाच
मठाः सप्त प्रकर्तव्याः प्रासादराजकोपमाः। पृथगेकैक संस्थानं कथये भूमिकाक्रमम् ॥१॥ मन्दरो हेमकूटाख्यो वर्धनः पृथिवीजयः । कैलासो रत्नकूटाख्यो मेरुसंशोऽभिधानतः ॥२॥ षड्दारुकाय वरकै युग्माकारैः सुसंस्थिताः। द्विक्षणा च पट्टशाला मत्तगजा याम्योत्तरे ॥३॥ ऊर्वेऽपवरकयुक्ताः पदृशाला विवर्जिताः। प्राकारकपिशीर्षाव्या: प्रतोल्यन सुशोभिताः॥४॥
इति मन्दरः॥
मध्ये चतुष्की स्तम्भाल्या अलिन्दैः परिवेष्टिता । द्विक्षणान पट्टशाला मूलगृहोर्श्वभूमिका ॥५॥ द्वितीयभूमस्तके तु कर्तव्या पुष्पकाकृतिः। हेमशीर्षन्तु तन्नाम कर्तव्यं तु तपस्विनाम् ॥ ६॥
इति हेमशीर्षः। याम्योत्तरे पट्टशाला षड्दारुकापवरकैः। वर्धमानस्तु तन्नाम कर्तव्यः शान्तिमिच्छता ॥७॥
इति वर्धमानः ।। विभूमिका तथा ताभ्यां त्रिक्षणा: पट्टशालिका। पृथ्वीजयश्च तन्नाम कर्तव्यस्तु मुनीन्द्रकः ॥ ८॥
इति पृथ्वीजयः ।। द्विक्षणा पट्टशाला च कर्तव्या चैव दक्षिणैः । मत्तावरणयुक्तक भूमिका कपिशीर्षकैः ॥९॥ याम्योत्तरेऽपवरकान् त्यक्त्वा न्यलेच्चतुः क्षणाम् । अप्रशालां प्रकुर्वीत कैलासं तु भवालयम् ॥ १० ॥
इति कैलासः ।। तृतीयभूमस्तके तु कर्तव्या पुष्पकाकृतिः। रत्नशीर्षमितिख्यातं मुनीनां जितचेत्साम् ॥ ११ ॥
इति रत्नशीर्षः॥ पञ्चभौमः प्रकर्तव्यः सुवेदी संस्थितो मठः । द्विभौमा च पहशाला पुष्पकं तु तहतः ॥ १२ ॥ एवं तु मेरुसंशश्च कर्तव्यस्तु मठाधिपः। तपस्तेजोभवो नित्यं नृपराष्टस्य शान्तिदः ॥ १३॥
इति मेरुः ।। इति सप्तमठाधिकारः॥