________________
अपराजितपृच्छा उत्तुङ्गस्य च संस्थाने दारुपट्टमधः शिरम् । महोत्सवं तु तन्नाम कार्य हिन्दोलकं तथा ॥ १४॥
इति महोत्सवः ॥ महोत्सवो वसन्तश्च क्रीडामणिः श्रियोद्भवः । मकरपताकोद्भवो हिन्दोलः पञ्चमस्तथा ॥ १५ ॥ महोत्सवस्य संस्थाने अर्ध शीर्षे समुन्नतम् । पक्षस्तम्भौ च प्रत्येक मिलिका तिलकान्वितौ ॥१६॥ एकस्मिन्ब्रह्मलोकश्च विष्णुलोको द्वितीयके । शिवलोकस्तदूर्व तु वसन्तो नाम नामतः ॥ १७ ॥
इति वसन्तः॥ पक्षयो द्वे चतुष्के च कर्तव्ये तत्समोन्नते। क्रीडामणिस्तु नाम्ना वै मतावरणवेष्टितः ॥ १८॥
इति क्रीडामणिः॥ द्विभूमिका चतुष्क्युक्ता मध्ये कुर्यात्रिभूमिकाम् । श्रियोद्भवस्तदा नाम कार्यों हिन्दोलकस्तथा ॥ १९ ॥
____ इति थियोद्भवः ।। चतुरश्रीकृते क्षेत्रे पदमेकं विभाजितम् ! सीमासूत्रे निर्गता च सूर्यस्तम्भै ढिभूमिका ॥ २०॥ तवं च चतुः स्तम्भा भूमिकाभि रलकृताः । पञ्चसंवरणाढ्यं च मध्ये हिन्दोलकं भवेत् ॥ मकरपताकोद्भवं कर्तव्यं च महेश्वरे ॥ २१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तश्रीभुवनदेवाचार्योक्तापराजितच्छायां
पञ्चतोरण हिन्दोलकाधिकारो नाम चतुर्नवत्युत्तरशततम सूत्रम् ॥