________________
अपराजितपृच्छा
विश्वकर्मोवाच--
रथांश्चैव प्रवक्ष्यामि प्रोक्तांश्च नवसङ्ख्यया । तदभिधानमाने च कथयामि विशेषतः ॥ १४॥ नन्दश्च नन्द्यावर्तश्च नन्दिघोषः पराजयः । पताक: पद्मको नाम पृथ्वीजयो महोद्भवः ॥ १५॥ श्रीमेरुश्च तथा ख्यात; कर्तव्यः सर्वकामदः । पवमाद्योक्तसङ्ख्याश्च रथाश्च नवकामदाः ॥ १६॥ दशाङ्गलो भवन्नाहो वृत्तव्यासप्रमाणतः। एकादश द्वादश च त्रयोदश चतुर्दश ॥ १७ ॥ पञ्चदश तथा मानं वृत्तव्याससमुद्भवम् । तत्समा दीर्घता झेया द्विच्छत्राकारकोऽग्रतः ॥१८॥ नाहे व्यासोद्भवारका स्तत्समो गण्डकोद्भवः । बाह्याभ्यन्तरतो गण्डं तूलिकाकारवृत्तकम् ॥ १९ ॥ गण्डोर्चे च भवेत्पिण्डो वृत्तः (त:) पञ्च सुगण्डकैः । विंशत्थरकसंयुक्तं चक्रमानस्य लक्षणम् ॥ २० ॥ उभयोश्चक्रयोर्गों हाङ्गुलैः पञ्चषष्टिभिः ॥ चतुरङ्गुलतो वृद्धि र्यावत् पञ्चप्रमाणकम् ॥ २१ ॥ चक्राधैं भवेत् सेद्धं छटकार्ट पावतो दिवि ?। गुहामस्तकपीठाङ्गं पीठान्ते च समुन्नतम् ॥ २२ ।। हस्तका गुह्य ग्राह्यं त्रिष्टि बाणेषु निश्चला ?। प्राणानां तत्समोपेता मुद्घट्टपारकोन्नता ? ॥ २३ ॥ हस्तका गुहाग्राह्यादि धुरिकाश्चैव वेष्टिताः। प्रवेशे चतुरश्राक्षा शेषाणां च वृत्तोद्भवः ॥ २४ ॥ अर्गली च डिम्बला च गुत्यके चक्रबाह्यतः। धुरिका चार्गला कार्या आयसैः सुदृढोत्तमा ॥२५॥ ऊचे ऊर्ध्वं च शीर्षाणामग्रवत्ता च कावरी । टंकापाणि पूर्वापरे उत्रता मध्यतस्तुला ॥ २६ ॥ छन्दकं (वटिक) फलकः कुर्यात्तुलारक्षाभिकीलिता। पंशुलीकाप्रपाद च तस्याने कर्कटीत्रयम् ॥ २७ ॥ मकरानोन्नतं कार्य धरं रथाप्रशोभनम् । तस्योर्चे मायूरपदं ! तत्रान्त स्यातृतीयकम् ॥ २८ ॥ अपरोभयचक्रान्ते चाष्टमांशे हलायकम् । चकत्रयोद्भवं कार्यवाहिनी स्याद् दृढात्मका ॥२९॥ तस्यार्ध तध्वानैश्च ? छन्दक (वटिक) सुदृढात्मकम् । तस्योर्चे च रथः कार्यः सर्वलक्षण संयुतः॥ ३०॥