________________
४९९
अपराजितपृच्छा तवनकूटयोर्मध्ये तिलक द्वयंशविस्तरम् । भागोदयं विधातव्य रूपसंघाटभूषितम् ।। १७ ॥ तवङ्गरथिकाश्चैव द्विभागोदयिनः स्मृताः। अष्टचत्वारिंशत्कूटा मूलेस्युः पूर्ववत्तथा ॥ १८ ॥ नवघण्टा समायुक्ता स्याद्वै द्वादशसिंहतः।। नन्दिनी नाम विख्याता कर्तव्या शान्तिमिच्छता ॥ १९ ॥ कार्या तिलकवृद्धिश्च यावत्क्षेत्रं वेदाश्रकम् । मण्डपदलनिष्कासै भक्तिभागैस्तु कल्पना ॥ २० ॥ बृहद्दलै मिन्नोद्भिन्ना मण्डपक्रमभागतः।।
आसां युक्ति विधातव्या मेरुकूटान्तकल्पना ॥ २१ ॥ इति सूत्रसन्तामगुणकिर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजित पृच्छायां
मण्डपो संवरणाधिकारी नाम त्रिनवत्युत्तरशततमं सूत्रम् ॥