________________
(१९३) मण्डपोर्चे संवरणा नाम त्रिनवत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
सम्बरणा: प्रवक्ष्यामि यथोक्ताः पूर्वमेव हि । तासां नामानुक्रमं च कथयामि समासतः॥१॥ पुष्पिका नन्दिनी चैव दशाक्षा देवसुन्दरी। कुलतिलका रम्या च उद्भिन्नाच नारायणी ॥२॥ नलिका चम्पका चैव पद्माख्या च समुद्भवा । त्रिदशा देवगान्धारी रत्नगी चूडामणिः ॥३॥ हेमकूटा चित्रकूटा हिमाख्या गन्धमादनी। मन्दरा मनिख्याता कैलासा रस्तसम्भवा ॥४॥ मेरुकूटोद्भवा ख्याताः सङ्ख्यया पञ्चविंशतिः। पृथगेकैक संस्थाने भक्ता भागैश्च सङ्ख्यया ॥५॥ आद्या वै पञ्चघण्टा च पुष्पिका नाम मामतः। . तावश्चैव चतुर्वद्धि र्यावदेकोत्तरं शतम् ॥६॥ पञ्चविंशतिराख्याता विभक्तिभागलख्यया। अष्टभागोद भवा चाऽद्या पुष्पिका नाम नामतः॥७॥ तदनन्तरं वृद्धिश्च चतुर्भाग यथोत्तरम् । चतुर्घण्टोद्भवा वृद्धिः सङ्ख्याभेदाश्च नामतः॥८॥ चतुरश्रीकृते क्षेत्रे अष्टधा प्रतिभाजिते । उच्छ्यः स्याश्चतुर्भागैः सर्वासामथा(दयः ॥९॥ मूलकूटोदूभवाः कर्णा द्विभागैः पृथग्विस्तराः। भागोदया विधातव्याः कूटा वै सर्वकामदाः ॥ १० ॥ .............................................। छाद्योद्गमास्तदर्धे च कर्णे कणे च घण्टिका ॥ ११ ॥ तद्पा भद्रकूटाश्च शङ्गकूटास्तदर्धतः। सिंहस्थाना कर्णघण्टी ब्रहद्घण्टी तदूर्ध्वतः ॥ १२॥ संवरणा गर्भमूले रथिका द्वयंशविस्तरा। भागेका चोदये कार्या भागा पक्षतवङ्गिका ॥ १३॥ तवें चोदगमो भाग स्तवकोर्ध्वं च फटकः। सिंहं वै उद्गमोर्चेतु उरोघण्टा भागोपरि ॥ १४ ॥ तदुपरि सिंहस्थानं भागैकं च विनिर्गतम् । तस्योपरि मूलघण्टा द्विभागा च भागोच्छ्या ।। १५ ।। अष्टसिंहः पञ्चघण्टैः कूट रेवं द्विराष्टभिः । चतुर्भि मूलकूटश्च पुष्पिका नाम नामतः ॥ १६ ॥