________________
अपराजितपृच्छा व्योमार्कस्य च बाह्य तु अष्टौ मन्दारकाणि च । त्रयोदशाज्यमाख्यातं कार्य मन्दारकं च तत् ॥५६॥
इति सर्वसुन्दरम् ॥ नवमन्दारकबाह्ये चाष्टमन्दारकं तथा । मेघच्छत्र नाम सप्त-दशमन्दारकं हि तत् ॥ ५७ ॥
इति मेघच्छत्रम् ॥ सप्तमन्दारकबाह्य पुनः कुर्यात्त द्वादश । एकोनविंशतिकान्तं कर्तव्यं सर्वकामदम् ॥ ५८ ।।
इति महाबिम्बम् ॥ नवमन्दारकबाह्ये पुनर्दद्यात्त षोडश । पञ्चविंशत्यन्तमेतत् कर्तव्यं शान्तिमिच्छता ॥ ५९ ॥
____ इति दीप्तम् ॥ एकैकस्य क्रमयोगे मिश्राण्युक्तानि वै क्रमात् ।
एवमादिगुणोपेतं सर्व मन्दारकं विदुः॥ ६०॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वितानच्छन्दाधिकारो नाम द्विनवत्युत्तरशततमं सूत्रम् ॥