________________
*
अपराजित पृच्छा
बाह्यकर्ण परित्यज्य पद्मकं नाम नामतः ।
इति पद्मम् ॥
.........॥ १८ ॥
अर्धभागं तक्ष्य बाह्ये पङ्क्तौ स्याद् गजतालुका ॥ १७ ॥ अष्टलमा च्छन्दभवा मुकुल्योऽष्टौ प्रकीर्तिताः । तुम्बिकाश्चतुर्विंशतिः.. निबन्धलूमाग्रपङ्क्तौ परिघौ पद्मपत्रिका | एवमादिगुणैर्युक्तं विकाशं नाम नामतः ॥ १९ ॥ इति विकाशम् || गजतालुकयोः स्थानेऽर्धचन्द्रं कमलाष्टकम् | विदिक्षुदिक्षु संस्थाने चाऽष्टपत्रं तु नामतः ॥ २० ॥
इत्यष्टपत्रम् ॥ अष्टकोलकमध्ये तु पद्मं भागं च लम्बयेत् । रम्भापुष्पोद्भवादग्रे चाष्टशृङ्गस्तु छत्रकम् ॥ २१ ॥
इति छत्रम् ॥
मध्ये छत्रे चाष्टलमः शृङ्गान्ते चाकर्णिकाः । गोकर्णसदृशाकाराः कर्णेऽश्वत्थदलाकृतिः ॥ २२ ॥ इति कर्णिकम् ॥ अष्टकोण बाह्यशृङ्गे कर्णिकाश्च शृङ्गान्तरे । क्षोभयित्वा ततः शेषं नागबन्धैरनेकधा ॥ २३ ॥ कर्णस्थाने नागवीधि रष्ट्रकोलानि बाह्यतः ।
इति नागवीधिः ॥
पुष्पकं नाम विख्यातं चतुः कोलाष्टकैः कृतम् ॥ २४ ॥ इति पुष्पकम् ॥
अष्टबाह्ये द्विरष्टौ च कुर्यात्पद्माकृतीस्तथा । भ्रमरावलीति तन्नाम दुर्लभं देवदानवैः ॥ २५ ॥
इति भ्रमरावली |
इति पद्मकच्छन्दोद्भवं वितानम् ॥
चतुरश्रीकृते क्षेत्रे भुजकर्णविशोधिते । चतुर्भागाङ्कितं कृत्वा पादषोडशकान्वितम् ॥ २६ ॥ कर्णरेखाश्रयं कार्यं विकर्णत्रयमेव च । मध्यं चतुष्पदं वृत्तं मूलनाभिसुसंस्थितम् ॥ २७ ॥ तथाऽर्धचन्द्राकृतयो द्वौ द्वौ भागा चतुर्दिशम् । नाभ्यनाम्ना च विख्यातं वितानं विष्णुवल्लभम् ॥ २८ ॥ इति नाभ्यम् ॥ भागमेकं तु परिधौ वर्धयेत्तु समासतः । द्वौ द्वौ भागौ दिक्षुकोणं विदिग्मध्ये तदर्धकम् ॥ २९ ॥ इति नाभ्योद्भवम् ॥