________________
वितानच्छन्दो नाम द्विनवत्युत्तरशततम सूत्रम् ॥ पुनश्च वधयेद् भागं वेदाश्रमष्टभागकम् । विकर्णानां सर्वसूत्रं नाभ्यकणे व्यवस्थितम् ॥ ३०॥
इति पञ्चनाभ्यश्रीवत्सम् ।। अभागं च विस्तारे आयामे सूर्यभागकम् । कुर्यान्मालाधरं प्राशो वितानं दिव्यभूषणम् ॥ ३१ ॥ समतलं च विज्ञेयं कर्णरेखासमस्तकम् (समन्वितम)। पूर्वापरयुक्तियोगे मध्यं कुर्याद् युगांशकैः॥ ३२ ॥ नाभ्युद्भवाकारमध्यं कर्तव्यं सर्वशान्तिदम् । एकैकं पूर्वापरतः तद्पालङ्कतं तथा ॥ ३३ ॥ याम्योत्तरे च पाङ्गेि द्वे द्वे नाभ्ये उदाहृते । ऊर्चे नाभ्यादिकं कुर्यात् समस्तं वाहतो मुखम् ॥ ३४ ॥ त्रिपड़ो ऊर्ध्वक्षिप्ताङ्गे सप्तान्तं च सुलम्बितम् । एवंविधं प्रकर्तव्यं विष्णवे सर्वमण्डनम् ॥ ३५॥
इति सप्तनाभ्यमालाधरम् ॥ द्वादशांशं समं क्षेत्रं कर्णसूत्रात्मकं तथा । विकणे सूत्रयेनाभ्यं चतुर्भागं कलांशकम् ॥३६ ॥ नाभ्योद्भवाकारमध्यं कुर्यात् समतलं तथा । चतुःकण चत्वारि चत्वामेवं चतुर्दिशम् ॥ ३७ ॥ तथा चैकं गर्भमध्ये कर्तव्यं दिव्यभूषणम । नवनाभ्योद्भवं ख्यातं तुम्बिका नव लम्बिताः ।। ३८ ॥
इति नवनाभ्यं नन्दाक्षम् ।। पूर्वभागादिका सङ्ख्या पूर्वमानप्रकल्पिता। सत्रात्पञ्च विकर्णानि स्थितान्यककतस्तथा ॥ ३९॥ तथापरमुखान्यष्टाचे वर्ध नाभ्याक्रतीनि च । कर्णश्चतुर्यो मुनियुकं ! सूर्योद्भवं तु कामदम् ॥ ४० ॥
. ति त्रयोदशनाभ्यं सूर्योभषम् ॥ द्वयष्टभागाङ्कितं क्षेत्रं कण नाभ्यं युगांशकम् । बाहों च द्वादशोक्तानि श्रीवत्सं मध्यतस्तथा ॥४१॥
इति सप्तदशनाभ्यं गरुडम् ॥ छन्दं विंशतिधा भक्तं चतुर्मध्ये श्रीवत्सकम् । शेषाणि याह्यपरिधौ कुर्यान्नाभ्यानिषोडश॥४२॥
इति वैष्णवम् ॥
इति नाभ्यच्छन्दोद्भवं वितानाष्टकम् ॥ घेदमतं तु वेदाश्रमष्टशङ्ग विच्छत्रकम् । एकक शगमध्ये तु पृथक् कोलत्रयं क्षिपेत् ॥४३॥ .