________________
४८८
अपराजित पृच्छा
वितानं पुष्पसंकाशं पुष्पजातमनेकधा । रम्भापुष्पकसंकाशं वितानाग्रं तु यादृशम् || १६ | वितानानां प्रभेदाश्च सम्प्रोका वास्तुवेदिभिः । शुद्धाश्च छन्दसंघाटा भिन्ना उद्भिन्नकास्तथा ॥ १७ ॥ पद्मके शुद्धच्छन्दाश्च चतुःषष्टिः प्रकीर्तिताः । त्रिंशचैव संघादास्तथैव परिकीर्तिताः ॥ १८ ॥ शतद्वयं च भिन्नाश्च उद्भिन्नास्तत्समास्तथा । एवं पद्मोद्भवे छन्दे शुद्धाद्याच प्रकीर्तिताः ॥ १९ ॥ चत्वारिंशच्च संघादाः शतं भिन्नास्तथैव च । उद्भिन्नाश्च समुत्पन्नाः पत्रिंशदधिकं शतम् ॥ २० ॥ शुद्धाश्चतुर्विंशतिक-सङ्ख्याकाः सम्प्रकीर्तिताः । एवं नाभ्युद्भवच्छन्दे वितानानां शतत्रयम् ॥ २१ ॥ सभामार्गे द्विरौ च शुद्धाश्चैव समीरिताः ।
शिश्चैव संघाटा भिन्ना वस्वविधभेदतः || २२ ॥ उद्भिन्नाञ्च शतं त्वेकं सभामार्गविनिर्गताः । एवं सभामार्गजातवितानानां शतद्वयम् ॥ २३ ॥ मन्दारके तथा प्रोक्ताः शुद्धच्छन्दा दशैव च । संघाटा वै पञ्चदश चत्वारिंशच्च भिन्नकाः ॥ २४ ॥ अष्टचत्वारिंशदेवमुद्भिन्नाश्च प्रकीर्तिताः । एवं मन्दारकभवा त्रयोदशाधिकं शतम् ॥ २५ ॥ वितानानि समस्तानि एकादशशतानि च । त्रयोदशाधिकान्येव विचित्राणि भवन्ति च ॥ २६ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायां विताननिर्णयाधिकारो नाम नवाशीत्युत्तरशततमं सूत्रम् ॥