________________
(१८९) विताननिर्णयोनाम नवाशीत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
सुरसाशुकाप्रान्तं दिव्यमण्डपभूषितम् । शुकाने च त्रिकाग्रे च नृत्यरङ्गबलाणकम् ॥ १ ॥ वास्तुवेदोद्भवाः सर्वे रूपच्छन्दक्रमागताः । देशजातिकुलस्थानं वर्णभेदैस्तथापरम् ॥ २ ॥ मण्डपानां समस्तानां मध्ये कुर्याद्वितानकम् । आद्योत्पत्तिसमं सर्ववितानानां तु लक्षणम् ॥ ३॥ वितानानि विचित्राणि क्षिप्तान्युत्क्षिप्तकानि च । समतलानि शेयानि उदितानि त्रिधा क्रमात् ॥ ४ ॥ प्रयोदशाधिकशतं सहनं च वितानकाः । प्रोक्ताश्च विविधाश्छन्दा लूमास्तत्र त्वनेकधा ॥५॥ पद्मको नाभिच्छन्दश्च सभामार्गस्तृतीयकः । मन्दारक इति प्रोक्तो वितानाश्च चतुर्विधाः ॥ ६ ॥ पद्मको विप्रजाति: स्यात् क्षत्रियो नाभिच्छन्दकः । सभामार्गों भवेद्वैश्यः शद्रो मन्दारकस्तथा ॥ ७ ॥ पनकः श्वेतवर्णः स्यात् क्षत्रियो रक्तवर्णकः। सभामार्गो भवेत्पीतो मन्दारः सर्ववर्णकः ॥ ८ ॥ विचित्ररत्नवर्णाढ्याः पद्मपत्रभिवाम्भसि । पद्मोद्भवास्तथा लूमा नागवीथिपरिभ्रमाः ॥५॥ पद्मोद्भवं बन्धसन्धौ नागविद्याधरोदितम् । कीर्तिमुखपत्रशाखावज्रशृङ्गैर्निरन्तरम् ॥ १० ॥ गजतालू तथापरे लूमा छन्दक्रमोद्गता । श्वेतरक्तहरित्पतैलिकाकारशोभितम् ॥ ११ ॥ क्वचित्त हेमवर्ण च मेधोदरनिभं क्वचित् । क्वचिञ्च श्वेतवर्ण स्यात् कचिन्नीलोत्पलप्रभम् ॥ १२ ॥ विचित्रवर्णसंकाशं गन्धर्वगणसेवितम् । किन्नरविद्याधरोक्तगीतवाद्यसुनृत्यकम् ॥ १३ ॥ केतकीबकुलै रम्भामुचकुन्दैश्च मल्लिकैः । पाटलै गजचम्पामिर्जातिनागकदम्बकैः ॥ १४ ॥ सुसाराशोकपत्रैश्च पुन्नागैर्नागकेशरैः। श्वेतरतोत्पलैः पनपत्रः संस्कारशोभितः ॥ १५ ॥